युक्तं मध्ये कृशा तन्वी कार्मुकीकरणाय यत्।
अत्रैव कुसुमास्त्रेण पीड्यते श्लिष्टमुष्टिना॥ 312 ॥
स्तनौ भारार्पणव्यग्रौ काञ्ची कलकलोन्मुखी।
कस्यां दिशि न मध्यस्य तस्याः कार्श्यं सहेतुकम्॥ 313 ॥
मध्यं तव सरोजाक्षि पयोधरभरार्दितम्।
अस्ति नास्तीति सन्देहः कस्य चित्ते न भाषते॥ 314 ॥
स्मरमानसिकसमस्याः स्यात्स्तनिमा निरवधिर्मध्यः।
श्रीरेव पूरयति यां न गिरां देवी न चापि गुरुरस्याः॥ 315 ॥
अस्मिन्प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मथी दृष्टिः।
सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः॥ 316 ॥
1वयःप्रकर्षादुपचीयमानस्तनद्वयस्योद्वहनश्रमेण।
अत्यन्तकार्श्यं वनजायताक्ष्या मध्यो जगामेति ममैष तर्कः॥ 317 ॥
बद्ध्वा ह्रियो मा त्रिवली गुणेन गृह्णाति रोमावलिनेत्रवल्लीम्।
इतीव चिन्ताकुलभङ्गुरोऽयं मध्यो मृगाक्ष्याः कृशतामुपैति॥ 318 ॥
काञ्चीगुणैर्विरचिता जघनेषु लक्ष्मीर्लब्धा स्थितिः स्तनतटेषु च रत्नहारैः।
नो भूषिता वयमितीव नितम्बिनीनां कार्श्यं निरर्गलमधार्यत मध्यभागैः॥ 319 ॥
स्फुटम2सदवलग्नं तन्वि निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः।
कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्रजालं प्रतीमः॥ 320 ॥
तुङ्गाभोगे स्तनगिरियुगे प्रौढबिम्बे नितम्बे सीमादेशं हरति नृपतौ यौवने जृम्भमाणे।
मध्यो भीरुः क्वचिदपि ययौ पद्मपत्त्रेक्षणायाः शून्यं मध्यस्थलमिति ततः किंवदन्तीं वदन्ति॥ 321 ॥
देहं हेमद्युति परिहृताम्भोजवृष्टिं च दृष्टिं राशीभूतभ्रमपटलीचारुवेषं च केशम्।
दृष्ट्वा सद्यो विपुलहृदयानन्दमूढेन धात्रा सारङ्गाक्ष्याः किमु रचयितुं विस्मृतो मध्यदेशः॥ 322 ॥
आक्रान्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं श्रुतियुगमविशद्भ्रूयुगेनापि सार्धम्।
वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणिबिम्बेन साकं मध्यः सङ्गृह्य बद्धस्त्रिवलिभिरभितः कार्श्यमङ्गीकरोति॥ 323 ॥