घटीयन्त्रायते हारो नाभिकूपे मृगीदृशः।
संसेक्तुमिव लावण्यपयसा यौवनद्रुमम्॥ 300 ॥
हारः कुरङ्गशावाक्ष्या राजति स्थूलमौक्तिकः।
नाभिलावण्यपानीयघटीयन्त्रगुणोपमः॥ 301 ॥
1मातङ्गकुम्भसंसर्गजातपातकशङ्कया।
स्नातीव मुक्ताहारोऽस्याः स्फुरत्कान्तिजले गले॥ 302 ॥
प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः।
मुक्ताहारेण लसता हसतीव स्तनद्वयम्॥ 303 ॥
हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले।
मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः॥ 304 ॥
मणिहारलता विभाति तन्व्याः स्तनसिंहासनसीम्नि तस्थिवांसम्।
अभिषेक्तुमनङ्गदेवराजं गलशङ्खाद्गलितेव दुग्धधारा॥ 305 ॥
ग्रीवाद्भुतैवावटुशोभितापि प्रसाधिता माणवकेन सेयम्।
आलिङ्ग्यतामप्यवलम्बमाना सुरूपताभागखिलोर्ध्वकाया॥ 306 ॥
स्तनातटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम्।
हारावलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः॥ 307 ॥
निबिडानुषक्तकुचकोकदम्पती मुखतारकापरिवृढेन शासितुम्।
अवतारितेव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी॥ 308 ॥
एकावलीकलितमौक्तिककैतवेन तन्व्याः समुन्नतपयोधरयुग्मसेवाम्।
चक्रुर्मनांसि यमिनामतिनिर्मलानि कन्दर्पमुक्तशरपातकृतान्तराणि॥ 309 ॥
सारङ्गाक्ष्याः कुचकलशयोरन्तराकाशदेशः प्राप्तच्छेदः क्वचिदपि चलन्प्रस्खलन्निःपपात।
नाभीकूपः समजनि नतस्तस्य देहच्युतासौ नक्षत्राणां ततिरिव समालम्बते हारशोभाम्॥ 310 ॥
मुक्तावली स्मरविदाहरविपाण्डुमूले नद्धा चकास्ति सितकम्बुनि कण्ठकाण्डे।
निश्चिन्वती मृगदृशो वदनं मृगाङ्कं नक्षत्रपङ्क्तिरिव सम्पतिता नभस्तः॥ 311 ॥
-
अन्त्यजः; [पक्षे] गजः. ↩︎