+१८ स्तनौ

मृद्वङ्गि कठिनौ तन्वि पीनौ सुमुखि दुर्मुखौ।
अत एव बहिर्यातौ हृदयात्ते पयोधरौ॥ 247 ॥
तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम्।
हाराय गुणिने स्थानं न दत्तमिति लज्जया॥ 248 ॥
यन्न भाति तदङ्गेषु लावण्यमतिसम्भृतम्।
पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम्॥ 249 ॥
स्वयम्भूः शंभुरम्भोजलोचने त्वत्पयोधरः।
नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति॥ 250 ॥
1अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्त्रयम्।
2श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम्॥ 251 ॥

3प्रायश्चित्तं न गृह्णीतस्तन्वङ्ग्याः 4पतितौ स्तनौ।
अत एव तयोः स्पर्शे लोकोऽयं शिथिलादरः॥ 252 ॥

5पयोधरघनीभावस्तावद6म्बरमध्यगः।
7आश्लेषोपगमस्तत्र यावन्नैव प्रवर्तते॥ 253 ॥

भाति निर्विवरे तस्याश्चित्रं कुचयुगान्तरे।
क्रीडाकुण्डलितोच्चण्डकोदण्डः कुसुमायुधः॥ 254 ॥
कुचद्वये चकोराक्षी चिबुकप्रान्तचुम्बिनि।
मर्मोक्तिषु न शक्नोति स्थातुं लज्जानतानना॥ 255 ॥
शङ्केतच्चित्तमक्लेशसाध्यं कुसुमधन्वनः।
काठिन्यं बहिरेवास्याः स्तनाभ्यां येन धारितम्॥ 256 ॥
सा स्तनाञ्जलिबन्धेन मन्मथं प्रथमागतम्।
करोतीवोन्मुखं बाला बान्धवं यौवनश्रियः॥ 257 ॥
अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम्।
स्फुटतां कञ्चुकानां यन्नायात्यावरमीयताम्॥ 258 ॥
कुम्भौ सदम्भौ करिणां कलशौ गन्दकौशलौ।
चक्रवाकौ वाराकौ च तदीयकुचयोः पुरः॥ 259 ॥
मुखेन्दुचन्द्रिकापूरप्लाव्यमानौ पुनः पुनः।
शीतभीताविवान्योन्यं तस्याः पीडयतः स्तनौ॥ 260 ॥
तत्कुचौ चरतः किञ्चिन्नूनं मनसिजव्रतम्।
नित्योन्मुखौ यदासाते मौलिरत्नस्य भास्वतः॥ 261 ॥
सा धारयत्यधीराक्षी दुर्वहं स्तनमण्डलम्।
गर्वपर्वतमारूढश्चित्रं कुसुमकार्मुकः॥ 262 ॥
तस्यास्तुङ्गस्तनच्छाया चकास्ति त्रिवलीतटे।
लीना तिमिरलेखेव वदनेन्दोरगोचरे॥ 263 ॥
स्वकीयं हृदयं भित्त्वा निर्गतौ यौ पयोधरौ।
हृदयस्यान्यदीयस्य भेदने का कृपा तयोः॥ 264 ॥
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा।
इदमेवं विधं भावि भवत्याः स्तनमण्डलम्॥ 265 ॥
उच्छ्वसन्मण्डलप्रान्तरेखमाबद्धकुङ्मलम्।
अपर्याप्तमुरो वृद्धेः शंसत्यस्याः स्तनद्वयम्॥ 266 ॥
मध्येन तनुमध्या मे मध्यं जितवतीत्ययम्।
इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः॥ 267 ॥
पटविघटितमपि कुचतटमकपटमनसः कुरङ्गनयनायाः।
मणिभवमूखपटलीपटलीनतया न सम्यगालोचि॥ 268 ॥
प्रतिपक्षो यदि वक्षोरुहपरिणाहः कुरङ्गनयनायाः।
आकाशवासतपसः श्रीफल विफलस्तवायासः॥ 269 ॥
चञ्चत्काञ्चनशैलावस्या वक्षोरुहौ तन्व्याः।
नो चेत्तावधिरूढा कथमनिमिषतां भजेत मे दृष्टिः॥ 270 ॥
करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः।
सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव॥ 271 ॥
काठिन्यमङ्गैरखिलैर्निरस्तं कुचौ युवत्याः शरणं जगाम।
अधः पतिष्याव इतीव भीत्या न शक्नुतस्तावपि हातुमेतत्॥ 272 ॥
दिवानिशं वारिणि 1कण्ठदघ्ने 2दिवाकराराधनमाचरन्ती।
वक्षोजताप्त्यै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपङ्किरेषा॥ 273 ॥

अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम्।
मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम्॥ 274 ॥
किं नर्मदाया मम सेयमस्या दृश्याभितो बाहुलतामृणाली।
कुचौ किमुत्तस्थतुरन्तरीपे स्मरोष्मशुष्यत्तरवाल्यवारः॥ 275 ॥
तालं प्रभु स्यादनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत्।
परं च नाश्रित्य तरुं महान्तं कुचौ कृशाङ्ग्याः स्वत एव तुङ्गौ॥ 276 ॥
एतत्कुचस्पर्धितया घटस्य खातस्य शास्त्रेषु निदर्शनत्वम्।
तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः॥ 277 ॥
निःशङ्कसङ्कोचितपङ्कजोऽयमस्यामुदीतो मुखमिन्दुबिम्बः।
चित्रं तथापि स्तनकोकयुग्मं न स्तोकमप्यञ्चति विप्रयोगम्॥ 278 ॥
आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोः क्व ताभ्याम्।
भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत्॥ 279 ॥
कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत्कुचौ चेत्।
सर्वं तदा श्रीफलमुन्मदिष्णु जातं 1वटीमप्यधुना न लब्धुम्॥ 280 ॥

मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम्।
केन स्तनौ सम्प्रति यौवनेऽस्याः सृजेदनन्यप्रतिमाङ्गयष्टेः॥ 281 ॥
तपोपकण्ठस्थिततारहारस्फुरत्प्रभाशैवलिनीजलेषु।
लीनो मनोजद्विप एव तस्य व्यक्तौ नु गण्डौ किमुरोजपिण्डौ॥ 282 ॥
सतां समालोकयतां विवेकान्हवींषि हुत्वा स्मरबाणवह्नौ।
धत्ते स्तनः श्यामशिरोमिषेण तनूदरि त्र्यायूषभस्मबिन्दुम्॥ 283 ॥
नयननीरज किं भवता कृतं मुखशशी यदयं रिपुराश्रितः।
इति वचो वितरीतुमिवोन्मुखं वरतनोः स्तनचक्रयुगं बभौ॥ 284 ॥
बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतौ क्रमेण।
अधुना हरणे कुचौ यतेते यदिते ते करिशावकुम्भलक्ष्म्याः॥ 285 ॥
कनकक्रमुकायितं पुरस्तादथ पङ्केरुहकोरकायमाणम्।
क्रमशः कलशायमानमास्ते सुदृशो वक्षसि कस्य भागधेयम्॥ 286 ॥
अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम्।
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ॥ 287 ॥
कलशे निजहेतुदण्डजः किमु चक्रभ्रमिकारिता गुणः।
स तदुच्चकुचौ भवन्प्रभाझरचक्रभ्रमिमातनोति यत्॥ 288 ॥
जम्बीरश्रियमतिलङ्घ्य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ।
नीलाम्बोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम्॥ 289 ॥
शुकीचञ्चूत्खातच्छवि फलयुगं यौवनतरोरयःशङ्कुक्षुण्णं मदनकरिणः कुम्भयुगलम्।
समुद्रं भोगायामृतकलशयुग्मं सुकृतिनः कुचद्वन्द्वं तन्व्या नवनखपदाङ्कं विजयते॥ 290 ॥
कुचावस्याः कामद्विपकलभकुम्भाविति परे वदन्त्यन्ये वक्षःसरसि कमले काञ्चनघटौ।
ममायं सिद्धान्तः स्फुरति मदनेन त्रिजगतीं विनिर्जित्य न्युब्जीकृतमिव निजं दुन्दुभियुगम्॥ 291 ॥
जम्बीरं वा कमलमुकुलं हेमगुच्छं यथेच्छं मङ्गल्यं वा कलयतु जनो भूपतेर्मन्मथस्य।
एतद्द्वन्द्वं कलयति मतिर्मामकीना नवीना केनाप्यस्या हृदि विनिहितं मन्मथानन्दकन्दम्॥ 292 ॥
पुष्पेषोरभिषेकहेमकलशौ हारप्रभावाहिनीचक्राह्वौ1 मदनोन्मदद्विपपतेः कुम्भौ रतेः कन्दुकौ।
कन्दौ बाहुमृणालिकायुगलयोर्लीलालतासत्फले नव्यौ 2रत्नसमुद्गकौ वहति सा लावण्यपूर्णौ स्तनौ॥ 293 ॥

यूनां मोहमहाफलप्रसविनीं नाभ्यालवालोत्थितां सेक्तुं रोमलतां मुखामृतनिधेर्लावण्यनामामृतम्।
नेष्यन्सारणिकां विभज्य कृतवान्कूटद्वयं पार्श्वयोः पञ्चेषुस्तदिदं पयोधरयुगं लोकाः समाचक्षते॥ 294 ॥
उद्भिन्नं किमिदं मनोभवनृपक्रीडारविन्दद्वयं सूते तत्कथमेकतः किल लसद्रोमावलीनालतः।
चक्रद्वन्द्वमिदं क्षमं तदपि न स्थातुं मुखेन्दोः पुरो लावण्याम्बुनि मग्नयौवनगजस्यावैमि कुम्भद्वयम्॥ 295 ॥
उद्भेदं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात् पुंनागाकृतिमाप्य पूगपदवीमारुह्य बिल्वश्रियम्।
लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमिभावस्याः स्तनौ बिभ्रतः॥ 296 ॥
3रत्याप्तप्रियलाञ्छने 4कठिनतावासे 5रसालिङ्गिते 6प्रह्लादैकरसे 7क्रमादुपचिते 8भूभृद्गुरुत्वापहे।
को9कस्पर्धिनि भोगभाजि10 11जनितानङ्गे 12खलीनोन्मुखे भाति 13श्रीरमणावतारदशकं बाले भवत्यास्तने॥ 297 ॥

मध्योऽयं बलिसद्म दृष्टिरधिकं पृथ्वी सुपर्वालयो बाहुस्तत्कमलेक्षणा त्रिजगतीमेकैव संरक्षति।
इत्येवं स्तनयोर्मिषेण कनकक्षोणीभृता सन्धृतौ यस्यामात्मकिशोरकौ पविभयव्यग्रेण जम्भद्विषः॥ 298 ॥


  1. विशेषदर्शनरहितम्; [पक्षे] विश्लेषशून्यम्. परस्परं संश्लिष्टत्वात्. ↩︎ ↩︎ ↩︎ ↩︎

  2. वेदः; [पक्षे] कर्णः. ↩︎ ↩︎ ↩︎

  3. पापनिष्कृतिम्; [पक्षे] प्रायो बाहुल्येन चित्तं स्वान्तम्. ↩︎ ↩︎

  4. पातकिनौ; [पक्षे] गलितौ. ↩︎ ↩︎

  5. पयोधराणां मेघानां घनीभावः प्राचुर्यम्. ↩︎ ↩︎

  6. आकाशमध्यवर्ती च. ↩︎ ↩︎

  7. आश्लेषानक्षत्रस्योदयः; [पक्षे] सुगमम्. ↩︎ ↩︎

  8. भूभृतां पर्वतानां गुरुत्वमपहन्ति नाशयति तादृशे. ततोऽपि महत्त्वात्; [पक्षे] भूभृतां राज्ञां गौरवनाशके भार्गवे. ↩︎

  9. चक्रवाकस्पर्धाशीले. तत्सदृशत्वात्; [पक्षे] सीतावियोगातुरतया चक्रवाकशापदे रामे. ↩︎

  10. भोगः सुखं शरीरं वा तद्भाजि; [पक्षे] भोगः फणा तद्भाजि शेषावतारे बलभद्रे. ↩︎

  11. जनितमदने; [पक्षे] जनितमनङ्गमङ्गस्य शरीरस्य विरुद्धं मौनभोगत्यागसमाधिप्रभृति येन तस्मिन्बुद्धे. ↩︎

  12. खेष्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिंतादृशे; [पक्षे] खलीनमश्वस्य वल्गा तदुन्मुखे कल्किनीति. ↩︎

  13. विष्णोः. ↩︎