सुदीर्घा रागशालिन्यो बहुपर्वमनोहराः। तस्या विरेजुरङ्गुल्यः कामिनां सङ्कथा इव॥ 244 ॥ रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे। हैमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य॥ 245 ॥