कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुषः।
अशोकपल्लवास्त्राणां प्रतिहस्तत्वमागतौ॥ 230 ॥
नाहं धार्यमधीराक्षि मुखेन्दोः संमुखं त्वया।
इतीव लीलापद्मेन करेऽस्याः कान्तिरर्पिता॥ 231 ॥
स्पृष्टस्त्वयैव दयिते स्मरपूजाव्यापृतेन हस्तेन।
उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः॥ 232 ॥
अस्याः करस्पर्शनगर्धनर्द्धिर्बालत्वमापत्खलु पल्लवो यः।
भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न सा प्रवालः॥ 233 ॥
अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः।
इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तया स्याम्॥ 234 ॥
मुग्धे प्रतारयसि किं कुसुमानि हर्तुमेतान्यशोकविटपस्य कुतूहलेन।
अस्यैव तन्विनवपल्लवडम्बरेषु त्वं हारयिष्यसि ननु स्वयमेव पाणी॥ 235 ॥