१५ बाहू

दयिताबाहुपाशस्य कुतोऽयमपरो विधिः।
जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः1॥ 224 ॥

शब्दवद्भिरलङ्कारैरुपेतमतिकोमलम्।
सुवृत्तं काव्यवद्रेजे तद्बाहुलतिकाद्वयम्॥ 225 ॥
सरले एव दोर्लेखे यदि चञ्चलचक्षुषः।
अमुग्धाभ्यो मृणालीभ्यः कथमाजह्रतुः श्रियम्॥ 226 ॥
बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ।
मन्त्रितं कथमेताभ्यां मृणालीकीर्तिलुण्ठनम्॥ 227 ॥
बाहू प्रियाया जयतां मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन्।
उच्चैस्तु तच्चित्रममुष्य भग्नस्यालोक्यते निर्व्यथनं यदन्तः॥ 228 ॥
अजीयतावर्तशुभं युनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम्।
निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम्॥ 229 ॥


  1. त्यक्तः. ↩︎