+१४ कण्ठः

कण्ठस्य विदधे कान्तिं मुक्ताभरणता यथा।
नास्याः स्वभावरम्यस्य मुक्ताभरणता तथा॥ 211 ॥
असावुद्वेललावण्यरत्नाकरसमुद्भवः।
जगद्विजयमङ्गल्यशङ्खः कुसुमधन्वनः॥ 212 ॥
श्रोत्रपीयूषगण्डूषैः काकलीकलगीतिभिः।
कण्ठः कुण्ठितचातुर्यो विपञ्चीपञ्चमध्वनेः॥ 213 ॥
अयं त्रयाणां ग्रामाणां निधानं मधुरध्वनिः।
रेखात्रयमितीवास्याः सूत्रितं कण्ठकन्दले॥ 214 ॥
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः॥ 215 ॥
कवित्वगानप्रियवादसत्यान्यस्या विधाता न्यधिताधिकण्ठम्।
रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः॥ 216 ॥
मुक्तोत्करः सङ्कटशुक्तिमध्याद्विनिर्गतः सारसलोचनायाः।
जानीमहेऽस्याः कमनीयकम्बुग्रीवाधिवासाद्गुणवत्त्वमाप॥ 217 ॥