जितेन्दुपद्मलावण्यं कः कान्तावदनं जयेत्।
मुक्त्वा तदेव सुरतश्रमजिह्मितलोचनम्॥ 160 ॥
चलद्भृङ्गमिवाम्भोजमधीरनयनं मुखम्।
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः॥ 161 ॥
विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम्।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम्॥ 162 ॥
मुखं वहति बन्धूकबन्धुरेणाधरेण सा।
पूर्णेन्दुमिव सौदर्यादङ्कलालितकौस्तुभम्॥ 163 ॥
विधायापूर्वपूर्णेन्दुमस्या मुखमभूद्ध्रुवम्।
धाता निजासनाम्भोजविनिमीलनदुःस्थितः॥ 164 ॥
शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम्।
करोति ते मुखं तन्वि चपेटापातनातिथिम्॥ 165 ॥
राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात्॥ 166 ॥
आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्।
भ्रमद्भ्रमरसंकीर्णं स्मरामि सरसीरुहम्॥ 167 ॥
इयं सुनयना दासीकृततामरसश्रिया।
आननेनाकलङ्केन जयतीन्दुं कलङ्किनम्॥ 168 ॥
लावण्यमधुभिः पूर्णमास्यमस्या विकस्वरम्।
लोकलोचनरोलम्बकदम्बैः कैर्न पीयते॥ 169 ॥
ननु नीलाञ्चलसंवृतमाननमाभाति हरिणनयनायाः।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः॥ 170 ॥
अम्बुजमम्बुनि मग्नं त्रासादाकाशमाश्रितश्चन्द्रः।
सम्प्रति कः परिपन्थी यं प्रति कोपारुणं वदनम्॥ 171 ॥
1आसायं सलिलभरे सवितारमुपास्य सादरं तपसा।
अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता॥ 172 ॥
सुविरलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे।
वदनपरिपूर्णचन्द्रे सुन्दरि राकास्ति नात्र संदेहः॥ 173 ॥
पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्त्रपामपाकृत्य।
जायाजित इति रूढा जनश्रुतिर्मे यशो भवतु॥ 174 ॥
अबले सलिले तपस्यता ते 2मुखभावो गमितो न पङ्कजेन।
कथमा3दिमवर्णता4न्त्यजस्य द्वि5जराजेन 6कृतोरुनिग्रहस्य॥ 175 ॥
सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात्।
अधुनापि न भङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम्॥ 176 ॥
यः ससर्ज कमलं रमागृहं विश्वलोचनमहोत्सवं विधिः।
एष तादृगसृजन्मृगीदृशो मीनकेतननिकेतनं मुखम्॥ 177 ॥
साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः॥ 178 ॥
तस्या मुखस्यातिमनोहरस्य कर्तुं न शक्तः 1सदृशं प्रियायाः।
अद्यापि शीतद्युतिरात्मबिम्बं निर्माय निर्माय पुनर्भिनत्ति॥ 179 ॥
अनेन रम्भोरु तवाननेन पीयूषबानोस्तुलया धृतस्य।
ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः॥ 180 ॥
अस्या मुखस्यास्तु न पूर्णिमास्यं पूर्णस्य जित्वा महिमा हिमांशुम्।
भ्रूलक्ष्मखण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः॥ 181 ॥
व्यधत्त धाता मुखपद्ममस्याः सम्राजमम्भोजकुलेऽखिलेऽपि।
सरोजराजौ सृजतोऽदसीयां नेत्राभिधेयावत एव सेवाम्॥ 182 ॥
दिवारजन्यो रविसोमभीते चन्द्राम्बुजे निक्षिपतः स्वलक्ष्मीम्।
अस्या यदास्ये न तदा तयोः श्रीरेकश्रियेदं तु कदा न कान्तम्॥ 183 ॥
अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्त्रात्।
अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित्॥ 184 ॥
अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुमरोषभासा।
प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठन्परिवेषपाशः॥ 185 ॥
विधोर्विधिर्बिम्बशतानि लोपं लोपं कुहूरात्रिषु मासि मासि।
अभङ्गुरश्रीकममुं किमस्या मुखेन्दुमस्थापयदेकशेषम्॥ 186 ॥
कपोलपत्त्रान्मकरात्सकेतुर्भ्रूभ्यां जिगीषुर्धनुषा जगन्ति।
इहावलम्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण॥ 187 ॥
धिक्तस्य मन्दमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समं करोति।
भ्रूभङ्गविभ्रमकटाक्षनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के॥ 188 ॥
चन्द्रं कलङ्करहितं शफरद्वयं च निस्तोयमन्धतमसं च सुगन्धि तन्व्याः।
वक्त्रच्छलेन भुवि सृष्टवतो विधातुर्वर्ण्येत केन करकौशलमद्भुतं तत्॥ 189 ॥
अस्यामपूर्व इव कोपि कलङ्करिक्तश्चन्द्रोऽपरः किमुत तन्मकरध्वजेन।
रोमावलीगुणमिलत्कुचमन्दरेण निर्मथ्य नाभिजलधिं ध्रुवमुद्धृतः स्यात्॥ 190 ॥
लोके कलङ्कमपहातुमयं शशाङ्को जातो यतस्तव मुखं तरलायताक्षि।
तत्रापि कल्पयसि तन्वि कलङ्कलेखां नार्यः समाश्रितजनं हि कलङ्कयन्ति॥ 191 ॥
यन्मञ्जुसिञ्जितमितो रसनामणीनां यच्छ्वाससौरभबलादलयो वदन्ति।
यद्गीतयः स्खलदलङ्कृतयश्च लीला दोलाविलासतरलस्तदयं मुखेन्दुः॥ 192 ॥
प्रविश झटिति गेहं मा बहिस्तिष्ठ कान्ते ग्रहणसमयवेला वर्तते शीतरश्मेः।
तव मुखमकलङ्कं वीक्ष्य नूनं स राहुर्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय॥ 193 ॥
यदमर्शतैः सिन्धोरन्तः कथञ्चिदुपार्जितं सकलमपि तद्धात्रा कान्तामुखे विनिवेशितम्।
सुरसुमनसः श्वासामोदे शशी च कपोलयोरमृतमधरे तिर्यग्भूते विषं च विलोचने॥ 194 ॥
असावन्तश्चञ्चद्विकचनवलीलाब्जयुगलस्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि।
विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ते॥ 195 ॥
जगन्नेत्रानन्दं वदनमतुलं पक्ष्मलदृशः कथङ्कारं पङ्केरुहमनुविधातुं प्रभवति।
अयं चेदाकाङ्क्षी सह मदनकोदण्डलतया वराको राकेन्दुः कुवलययुगं किं न वहति॥ 196 ॥
अनाकेशे चन्द्रः सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः सोऽपि तिमिरैः।
सुधां मुञ्चत्युच्चैरशनिमथ संमोहजननी किमुत्पातालीयं वदत जगतः कर्तुरुदिता॥ 197 ॥
सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ्ज्यो1त्स्नामच्छां नवलव2लिपाक3प्रणयिनीम्।
उपप्रकाराग्रं 4प्रहिणु नयने तर्कय 5मनागनाकाशे कोऽयं गलितहरिणः शीतकिरणः॥ 198 ॥
विना सायं कोऽयं समुदयति सौरभ्यसुभगः किरञ्ज्योत्स्नाधारामधिधरणि तारापरिवृढः। धनुर्धत्ते स्मारं तिरयति विहारं न तमसां निरातङ्कः पङ्केरुहयुगलमङ्गे नटयति॥ 199 ॥
अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न खलु परिभूतो दिनकृता।
कुहूभिर्नी लुप्तो न च युवतिवक्त्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते॥ 200 ॥
स्मितज्योत्स्नागङ्गा तपनतनया श्यामलरुचिः सरस्वत्योष्ठाभारुणकिरणसौन्दर्यजयिनी।
इमास्तिस्रस्तीर्थाधिप इव मुखे सुभ्रु मिलितास्तवेदं सेवन्को न लभत इहानन्दलहरीम्॥ 201 ॥
कोषः स्फीततरः स्थितानि परितः पत्त्राणि दुर्गं जलं मैत्त्रं मण्डलमुज्ज्वलं चिरमधो नीतास्तथा कण्टकाः।
इत्याकृष्टशिलीमुखेन रचनां कृत्वा तदत्यद्भुतं यत्पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम्॥ 202 ॥
आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं जन्मसमानमेव मिलितामंशुच्छटां वर्षति।
आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः सङ्कोचादथ दुःस्थितस्य न विधेस्तच्छीलमुन्मीलितम्॥ 203 ॥
तानि प्राञ्चि दिनानि यत्र रजनी सेहे तमिस्रापदं सा सृष्टिर्विरराम यत्र भवति ज्योत्स्नामयो नातपः।
अद्यान्यः समयस्तथाहि तिथयोऽप्यस्या मुखस्योदये हस्ताहस्तिकया हरन्ति परितो राकावराकीयशः॥ 204 ॥
अज्ञातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं भ्रान्तभ्रूलतमैणनाभितिलकं श्रीखण्डपत्त्रालकम्।
बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियम्॥ 205 ॥
चातुर्यस्यैकचिह्नं फलममलगिरां मूलमुत्तापशान्तेः पद्मायाः सप्रसादं स्थलमपि च रुचां कोशभूतं फलानाम्।
शृङ्गारस्यातिमान्यं शरदमृतकरस्पर्धि सौभाग्यसिन्धोरास्यं तस्याः सहास्यं मनसि न मृदुले कस्य लास्यं तनोति॥ 206 ॥