११ दन्ताः

द्विधा विधाय शीतांशुं कपोलौ कृतवान्विधिः।
तन्व्यास्तद्रसनिष्यन्दबिन्दवो रदनावलिः॥ 155 ॥
चन्द्राधिकैतन्मुखचन्द्रिकाणां दरायतं तत्किरणाद्धनानाम्।
पुरःपरिस्रस्तपृषद्द्वितीयं रदावलिद्वन्द्वति बिन्दुवृन्दम्॥ 156 ॥
राजौ द्विजानामिह राजदन्ताः सम्बिभ्रति श्रोत्रियविभ्रमं यत्।
उद्वेगरागादिमृजावदाताश्चत्वार एते तदवैमि मुक्ताः॥ 157 ॥
यावद्यावत्कुवलयदृशा मृद्यते दन्तपालिस्तावत्तावद्द्विगुणमधरच्छायया शोणशोचिः।
काचित्त्वस्याः परिमलकलाहूतमात्रालिकान्त्या वक्त्राश्वासे प्रसरति मुहुः श्यामिकाप्याविरासीत्॥ 158 ॥