तवैष विद्रुमच्छायो1 मरुमार्ग2 इवाधरः।
करोति कस्य नो मुग्धे पिपासाकुलितं मनः॥ 137 ॥
अल्पेनापि सुरक्तेन साधनेन प्रयोजनम्।
ओष्ठद्वयसहायेन कान्तास्येन जगज्जितम्॥ 138 ॥
सर्वस्यैव हि रत्नस्य 3व्रणेऽर्घः4 परिहीयते।
दयिताधररत्नं तु 5व्रणितं यात्यनर्घ6ताम्॥ 139 ॥
अधरोऽयमधीराक्ष्या 7बन्धुजीवप्रभाहरः।
अन्यजीवप्रभां हन्त हरतीति किमद्भुतम्॥ 140 ॥
मुखारविन्ददत्तश्रीः सुतनोररुणोऽधरः।
कुरुते हारमाणिक्यप्रदीपान्पाण्डुरत्विषः॥ 141 ॥
सन्ततोदयसन्ध्येव वदनेन्दोरनिन्दिता।
तदोष्ठमुद्रा लावण्यसमुद्रस्येव विद्रुमः॥ 142 ॥
अधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले।
सुवर्णनलिकामध्यान्माणिक्यमिव विच्युतम्॥ 143 ॥
अधरं खलु बिम्बनामकं फमाभ्यामिति भव्यमन्वयम्।
लभतेऽधरबिम्ब इत्यदः पदमस्या रदनच्छदे वदत्॥ 144 ॥
उत्थितो निशि कलानिधिर्भवेदेतदीयमुखतुल्यताप्तये।
प्रापितो मलिनभावमेतया लज्जया नभसि यात्यदृश्यताम्॥ 145 ॥
अपि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न भवत्यदः।
भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्त्रमिदं स्मरयन्त्रिणः॥ 146 ॥
अभिलषन्ति तवाधरमाधुरीं तदिह किं हरिणाक्षि मुधा बुधाः।
सुरसुधामधरीकुरुते यतस्त्वदधरोऽधरतामगमत्ततः॥ 147 ॥
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य॥ 148 ॥
बन्धूकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्जिहानम्।
रागश्रिया शैशवयौवनीयां स्वमाह सन्ध्यामधरोष्ठलेखा॥ 149 ॥
अस्या मुखेन्दावधरः सुधाभूर्बिम्बस्य युक्तः प्रतिबिम्ब एषः।
तस्याथवा श्रीर्द्रुमभाजि देशे सम्भाव्यमानास्य तु विद्रुमेऽसौ॥ 150 ॥
जानेऽतिरा8गादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽ9धरत्वम्।
द्वयोर्विशेषा1वगमाक्षमाणां नाम्नि भ्रमोऽभूदनयोर्जनानाम्॥ 151 ॥
प्रियामुखीभूय सुखी सुधांशुर्वसत्यसौ राहुभयव्ययेन।
इमां दधाराधरबिम्बलीलां तस्यैव बालं करचक्रवालम्॥ 152 ॥
अधरममृतं कः सन्देहो मधून्यपि नान्यथा मधुरमधिकं द्राक्षायाश्च प्रसन्नरसं फलम्।
सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात्॥ 153 ॥
त्वं पीयूष दिवोऽपि भूषणमसि द्राक्षे परीक्षेत को माधुर्यं तव विश्वतोऽपि विदितं माध्वीक माध्वीकता।
एतत्किं तु मनागरुं2तुदमिव ब्रूमो न चेत्कुप्यसि यः कान्ताधरपल्लवे मधुरिमा नान्यत्र कुत्रापि सः॥ 154 ॥