कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम्।
विभाति यस्यां 1ललितालकायां मनोहरा वैश्र2वणस्य लक्ष्मीः॥ 134 ॥
स्वर्णच्छवीनामसितेक्षणानां कर्णान्ततो गण्डलतातलानि।
भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि॥ 135 ॥
आबध्नन्परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाद्बहिः कुर्वत्पङ्कजजृम्भमाणकलिकाकर्णावतंसक्रियाम्।
तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले॥ 136 ॥