+०८ कर्णौ

सौन्दर्यपात्रे वक्त्रेन्दौ कुरङ्गासङ्गभीतया।
सूचितौ श्रोत्रपाशाभ्यां पाशाविव मृगीदृशा॥ 123 ॥
कमनीयतानिवासः कर्णस्तस्या विचित्रमणिभूषः।
सविधप्रसूतरत्नं शङ्खनिधिं दूरतरमकरोत्॥ 124 ॥
तालीदलं काञ्चनकर्णपाशौ प्रसारयन्ती सुतनुः कराभ्याम्।
रराज कर्णान्तनिषण्णदृष्टिः शाणे दधानेव कटाक्षबाणान्॥ 125 ॥
वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मान्वितोत्सर्गपयःप्रसूनौ।
कर्णौ किमस्या रतितत्पतिभ्यां निवेद्यपूपौ विधिशिल्पमीदृक्॥ 126 ॥
इहाविशद्येन पथातिवक्रः शस्त्रौघनिष्पन्दरसप्रवाहः।
सोऽस्याः श्रवःपत्त्रयुगे प्रणालीरेखेन धावत्यभिकर्णकूपम्॥ 127 ॥
अस्या यदष्टादश सम्विभज्य विद्याः श्रुती दध्नतुरर्धमर्धम्।
कर्णान्तरुत्कीर्णगभीररेखः किं तस्य सङ्ख्यैव न वा नवाङ्कः॥ 128 ॥
मन्येऽमुना कर्णलतामयेन पाशद्वयेन च्छिदुरेतरेण।
एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः॥ 129 ॥
आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि।
तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः॥ 130 ॥