नासामौक्तिकमबले किमधरबिम्बेन विद्रुमं कुरुषे।
दृष्ट्या गुञ्जाबीजं शिव शिव भूयस्तदेव हसितेन॥ 118 ॥
श्लेष्मागारे1 वसतिर्जातास्माकं तदत्र मा यात।
2आन्दोलनच्छलादिह निवारयन्तीव मौक्तिकानि विटान्[^4]॥ 119 ॥
सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन।
अनङ्गसञ्जीवनदृष्टशक्तिर्मुखामृतं ते पिबतीव चन्द्रः॥ 120 ॥
आकाशात्पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं पश्चाद्दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्तिकम्।
बाले बालकुरङ्गलोचनयुगे घोरं तपः सञ्चरन्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया॥ 121 ॥
अस्याः कामिवासरम्यभवनं वक्त्रं विलोक्यादरान्निश्चित्येव सुधाकरं प्रियतमं भूमीगतं शोभनम्।
नासामौक्तिककैतवेन रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृदया तत्सन्निधिं सेवते॥ 122 ॥