०६ नासा

पुराणबाणत्यागाय नूतनास्त्रकुतूहलात्।
तन्नासा भाति कामेन तूणीवाधोमुखीकृता॥ 114 ॥
दन्तालिदाडिमीबीजभक्षणोत्कण्ठचेतसः।
मन्ये मारशुकस्येयं नासा चञ्चूर्विराजते॥ 115 ॥
नासादसीया तिलपुष्पतूणं जगत्त्रयन्यस्तशरत्रयस्य।
श्वासानिलामोदभरानुमेयां दधद्द्विबाणीं कुसुमायुधस्य॥ 116 ॥
केचित्तिलस्य कुसुमं शुकचञ्चुमन्ये नासां वदन्ति कथयाम्यहमन्यदेव।
संरक्षितो निजशरासनसन्निधाने कामेन केतकदलैकमयो निषङ्गः॥ 117 ॥