+०५ नेत्रे

नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः।
1यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते॥ 60 ॥

निस्समशोभासौभाग्यं नताङ्ग्या नयनद्वयम्।
अन्योन्यालोकनानन्दविरहादिव चञ्चलम्॥ 61 ॥
आसां व्रतमतीवाक्ष्णोर्यत्पुरः परिसर्पणम्।
सह यातं मनस्तत्र त्यक्त्वा भूयो निवर्तनम्॥ 62 ॥
अर्जुनः कृष्णसंयुक्तः कर्णं यत्रानुधावति।
तन्नेत्रं तु कुरुक्षेत्रमिति मुग्धे मृशामहे॥ 63 ॥
एकमेवाक्षि वामाक्षि रञ्जयाञ्जनलेखया।
जायतामैन्दवे बिम्बे खञ्जनाम्बुजसङ्गमः॥ 64 ॥
अमुष्य मुषिता लक्ष्मीश्चक्षुषेति न नूतनम्।
न वेद्मि कथयत्यस्याः कर्णे लग्नं किमुत्पलम्॥ 65 ॥
मृगसम्बन्धिनी दृष्टिरसौ यदि न सुभ्रुवः।
धावति श्रवणोत्तंसलीलादूर्वाङ्कुरे कुतः॥ 66 ॥
तस्याः श्रवणमार्गेण चलिते यदि लोचने।
कुतः प्रकामधवले धत्तः कृष्णानुरक्तताम्॥ 67 ॥
श्रूयतां कौतुकं सोऽपि स्मरः शृङ्गारिणां गुरुः।
अमुष्याः शिष्यतामेति श्रवणोन्मुखयोर्दृशोः॥ 68 ॥
भास्वत्कुण्डलमाणिक्यप्रभाप्रतिहतेरिव।
नताङ्ग्याः श्रवणोत्सङ्गमारूढा नयनद्वयी॥ 69 ॥
नयनस्य तुलां चक्रे नलिनेन नतभ्रुवः।
ऊनेन चलिते भृङ्गं मामरंभाद्विधिर्दधौ(?)॥ 70 ॥
अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः।
जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्॥ 71 ॥
यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम्।
तदोपमीयते तस्या वदनं चारुलोचनम्॥ 72 ॥
श्रमयति शरीरमधिकं भ्रमयति चेतः करोति सन्तापम्।
मोहं मुहुश्च कुरुते विषविषमं वीक्षणं तस्याः॥ 73 ॥
अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनुः।
जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति॥ 74 ॥
नयनच्छलेन सुतनोर्वदनजिते शशिनि कुलपतौ क्रोधात्।
नासानालनिबद्धं स्फुटितमिवेन्दीवरं द्वेधा॥ 75 ॥
आयामिनोस्तदक्ष्णोरञ्जनरेखाविधिं वितन्वन्त्याः।
पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य॥ 76 ॥
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः॥ 77 ॥
मुखारविन्दोपरिभागसंस्थं नेत्रद्वयं खञ्जनमामनन्ति।
प्रफुल्लवक्त्राम्बुजपार्श्ववर्ति दलद्वयं भृङ्गयुतं मतं मे॥ 78 ॥
इन्दीवरं लोचनयोस्तुलायै निर्माय यत्नेन विधिः कदाचित्।
अतुल्यतां वीक्ष्य ततो रजांसि निक्षिप्य चिक्षेप स पङ्कमध्ये॥ 79 ॥
इषुत्रयेणैव जगत्त्रयस्य विनिर्जयात्पुष्पमयाशुगेन।
शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य॥ 80 ॥
सेयं मृदुः कौसुमचापयष्टिः स्मरस्य मुष्टिग्रहणार्हमध्या।
तनोति नः श्रीमदपाङ्गमुक्तां मोहाय या दृष्टिशरौघवृष्टिम्॥ 81 ॥
आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु।
अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम्॥ 82 ॥
कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन।
यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी॥ 83 ॥
त्वचः समुत्तार्य दलानि रीत्या मोचात्वचः पञ्चषपाटनानाम्।
सारैर्गृहीतैर्विधिरुत्पलौघादस्यामभूदीक्षणरूपशिल्पी॥ 84 ॥
चकोरनेत्रेणदृगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः।
सारः सुधोद्गारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः॥ 85 ॥
ऋणीकृता किं हरिणीभिरासीदस्याः सकाशान्नयनद्वयश्रीः।
भूयोगुणेयं सकला बलाद्यत्ताभ्योऽनयालभ्यत बिभ्यतीभ्यः॥ 86 ॥
दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम्।
न चेत्कृतः स्यादनयोः प्रयाणे विघ्नः श्रवःकूपनिपातभीत्या॥ 87 ॥
केदारभाजा शिशिरप्रवेशात्पुण्याय मन्ये मृतमुत्पलिन्या।
जाता यतस्तत्कुसुमेक्षणेयं यतश्च तत्कोरकदृक्चकोरः॥ 88 ॥
नतभ्रुवो लोचनखञ्जरीटौ विहारमानङ्गमिहारभेते।
कथं न सानन्दहृदो युवानस्तारुण्यमन्तर्निधिमुन्नयन्तु॥ 89 ॥
स्वदृशोर्जनयन्ति सान्त्वतां खुरकण्डूयनकैतवान्मृगाः।
जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भयात्॥ 90 ॥
नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे।
अपि ख़ञ्जनमञ्जनाञ्जिते विदधाते रुचिगर्वदुर्विधम्॥ 91 ॥
श्रुतिलङ्घनमीहमानयोर्मलिनाभ्यन्तरयोरधीरयोः।
स्मृतितापकरत्वमेतयोरुचितं लोचनयोर्मृगीदृशः॥ 92 ॥
लोचने हरिणगर्वमोचने मा विदूषय नताङ्गि कज्जलैः।
सायकः सपदि जीवहारकः किं पुनर्हि 1गरलेन लेपितः॥ 93 ॥

कामिनीनयनकज्जलपङ्कादुत्थितो मदनमत्तवराहः।
कामिमानसवनान्तरचारी मूलमुत्खनति मानलतायाः॥ 94 ॥
रामाविलोलनयने किमु मीनबाधौ नीलोत्पले किमथवा किमु खञ्जरीटौ।
किं वा जगत्त्रयजयाय कृतिर्न जाने कन्दर्पभूपरचिता नवकार्मणस्य॥ 95 ॥
मुखविधुपरिवृत्तोत्तानताटङ्कपाशावधिचकितचकोरीकान्तिचौरं तदक्षि।
त्रिभुवनयुवचेतोबन्धसङ्केतहेतोः सहचरमिव कर्तुं पाशमाशङ्क्य याति॥ 96 ॥


  1. नेत्रकटाक्षपातेन सूचितेषु. ↩︎ ↩︎