भ्रूरेखायुगलं बाति तस्याश्चटुलचक्षुषः।
पत्त्रद्वयीव हरिता नासावंशविनिर्गता॥ 52 ॥
असितात्मा समुन्नद्धः समाविष्कृतचापलः।
भुजङ्गकुटिलस्तस्या भ्रूविक्षेपः खलायते॥ 53 ॥
स्मरकल्पद्रुमो बाले तव भाले द्विपत्त्रकः।
पत्त्रयोरनयोश्छाया भ्रुवोर्व्याजादुदञ्चति॥ 54 ॥
किञ्चित्सविभ्रमोदञ्चिभ्रूलता भाति भामिनी।
बालक्रीडाप्रतिद्वन्द्वि तर्जयन्तीव यौवनम्॥ 55 ॥
कामकार्मुकतया कथयन्ति भ्रूलतां मम पुनर्मतमन्यत्।
लोचनाम्बुरुहयोरुपरिस्थं भृङ्गशावकततिद्वयमेतम्॥ 56 ॥
तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच॥ 57 ॥
भ्रूभ्यां प्रियाया भवता मनोभूचापेन चापे घनसारभावः।
निजां यदप्लोषदशामपेक्ष्य सम्प्रत्यनेनाधिकवीर्यतार्जि॥ 58 ॥
स्मारं धनुर्यद्विधुनोज्झितास्या यास्येन भूतेन च लक्ष्म लेखा।
एतद्भ्रुवौ जन्म तदाप युग्मं लीलाचलत्वोचितबालभावम्॥ 59 ॥