बाले ललामलेखेयं भाले भल्लीव राजते।
भ्रूलताचापमाकृष्य न विद्मः कं हनिष्यति॥ 41 ॥
1कस्तूरीतिलकं बाले बाले मा कुरु मा कुरु।
अद्य साम्यं भजामीति जृम्भते शशलाञ्छनः॥ 42 ॥
2श्यामलेनाङ्कितं बाले बाले केनापि 3लक्ष्मणा।
मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते॥ 43 ॥
नासावंशविनिर्मुक्तमुक्ताफलसनाभिना।
भाति भालतलस्थेन बाला चन्दनबिन्दुना॥ 44 ॥
लोचनफुल्लाम्भोजद्वयलोभान्दोलितैकमनाः।
कस्तूरीतिलकमिषादयमलिकेऽलिः समुल्लसति॥ 45 ॥
अस्या ललाटे रचिता सखीभिर्विभाव्यते चन्दनपत्त्रलेखा।
आपाण्डुरक्षामकपोलभित्तावनङ्गबाणव्रणपट्टिकेव॥ 46 ॥
अस्यास्तनुस्यन्दनसंस्मितो वै स मीनकेतुर्जगतीं विजेतुम्।
सकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चारुतरां पताकाम्॥ 47 ॥
विराजतेऽस्यास्तिलकोऽयमञ्चितो विकुञ्चितभ्रूलतिकाद्वयान्तरे।
विजित्य लोकद्वितयं दिवं प्रति स्मरेण वाणो धनुषीव योजितः॥ 48 ॥
अस्याः सुगन्धिनवकुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणायाः।
आविष्टरागमभिराममुखारविन्दनिष्यन्दलग्नमिव मे हृदयं द्वितीयम्॥ 49 ॥
अस्याः संयमवान्कचो मधुकरैरभ्यर्थ्यमानो मुहुर्भृङ्गीगोपनजाभिशापमचिरादुन्मार्ष्टुकामो निजम्।
सीमन्तेन करेण कोमलरुचा सिन्दूरबिन्दुच्छलादातप्तायसपिण्डमण्डलमसावादातुमाकाङ्क्षति॥ 50 ॥
केयूरं न करे पदे न कटकं मौलौ न माला पुनः कस्तूरीतिलकं तथापि तनुते संसारसारश्रियम्।
सर्वाधिक्यमलेखि भालफलके यत्सुभ्रुवो वेधसा जानीमः किमु तत्र मन्मथमहीपालेन मुद्रा कृता॥ 51 ॥