+०१ केशपाशः

अस्या मनोहराकारकबरीभारनिर्जिताः।
लज्जयेव वने वासं चक्रुश्चमरबर्हिणः॥ 1 ॥
भाति विन्यस्तकह्लारं सुकेश्याः केशसञ्चयम्।
शोणितार्द्रैः शरैः पूर्णं तूणीरमिव मान्मथम्॥ 2 ॥
स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः॥ 3 ॥
चलत्कामिमनोमीनमादातुं चित्तजन्मनः।
गलयष्टिरिवाभाति बालावेणी गुणोज्ज्वला॥ 4 ॥
एणीदृशो विजयते वेणी पृष्ठावलम्बिनी।
कशेव पञ्चबाणस्य युवतर्जनहेतवे॥ 5 ॥
तमस्तोम भृशं सोममण्डलोपरि राजसे।
धूमपानेन किं नाम धाम गम्यमतःपरम्॥ 6 ॥
वेणी श्यामा भुजङ्गीयं नितम्बान्मस्तकं गता।
वक्त्रचन्द्रसुधां लेढुं सान्द्रसिन्दूरजिह्वया॥ 7 ॥
तस्याः कचभरव्याजात्तनयस्नेहलालितः।
आरूढः पार्वतीबुद्ध्या गुहबर्हीव मूर्धनि॥ 8 ॥
श्यामा मिलिन्दमाला बालाया वदनपद्ममकरन्दम्।
आस्वादितुमिव मिलिता ललिता वेणीमिषादेषा॥ 9 ॥
मलिना अपि 1संयमनात्कुटिला अपि 2सुमनसां समागमतः।
3बाला अपि 4मुक्तानामनुषङ्गान्नि[^5]र्जरत्वमुपयान्ति॥ 10 ॥

(5. जरारहितत्वम्; [पक्षे] देवत्वम्.
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम्॥ 11 ॥
एणीदृशः पाणिपुटे निरुद्धा वेणी विरेजे शयनोत्थितायाः।
5सरोजकोशादिव निष्पतन्ती 6श्रेणी घनीभूय 7मधुव्रतानाम्॥ 12 ॥

इयं मुखाम्भोरुहसन्निधाने विलम्बिधम्मिल्लततिच्छलेन।
समागतां सादरमेव बाला द्विरेफमालामुत वा दधाति॥ 13 ॥
अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासमाप।
पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः॥ 14 ॥
अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम्।
स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम्॥ 15 ॥
अस्याः कचानां शिखिनश्च किं नु विधिं कलापौ विमतेरगाताम्।
तेनायमेभिः किमपूजि पुष्पैरभर्त्सि दत्त्वा स किमर्धचन्द्रम्॥ 16 ॥
आभाति शोभातिशयं प्रपञ्चादेणीदृशोऽस्या रमणीयशोभा।
वेणी लसत्कुन्तलधोरणीनां श्रेणीव किं चास हरिन्मणीनाम्॥ 17 ॥
विधिः किमस्या नितराममान्तमङ्गेषु शृङ्गाररसं सुकेश्याः।
स्निग्धोल्लसत्कुन्तलकैतवेन निधाय मूर्ध्नि स्तबकीचकार॥ 18 ॥
1चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्बिभर्ति सा।
पशुनाप्य2पुरस्कृतेन तत्तुलनामिच्छति चामरेण कः॥ 19 ॥

लसन्मौक्तिकश्रेणिगङ्गातरङ्गा स्वयं नन्दिनी भास्वतो नीलवर्णा।
ससीमन्तसिन्दूरसारस्वताभा त्रिवेणीयमेणीदृशो मौलिवेणी॥ 20 ॥
एतां नवाम्बुधरकान्तिमुदीक्ष्य वेणीमेणीदृशो यदि वदन्ति वदन्तु नाम।
ब्रूमो वयं मुखसुधांशुसाधाभिलाषादभ्यागतां भुजगिनीं मणिमुद्वहन्तीम्॥ 21 ॥
स्वर्भानुराकलयितुं स समुद्यतोऽभूद्राकां विनाननसुधांशुमहो यदस्याः।
मन्ये तदस्य न च तिष्ठति पूर्णिमायां भावो हि किन्तु परिपूर्णकले सुधांशौ॥ 22 ॥
विकचकचकलापः किञ्चिदाकुञ्चितोऽयं कुचकलशनिवेशी शोभते श्यामलाक्ष्याः।
मधुरसपरितोषात्किञ्चिदुत्फुल्लकोशे कमल इव निलीनः पेटकः षट्पदानाम्॥ 23 ॥
न जीमूतच्छेदः स हि गगनचारी न च तमो न तस्येन्दोर्मैत्त्री न च मधुकरास्ते हि मुखराः।
न पिच्छं तत्केकिन्युचितमसितोऽयं न च मणिर्मृदुत्वादाज्ञातं घनचिकुरपाशो मृगदृशः॥ 24 ॥
धुनोत्तु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये बलमथनवाटीविटपिनाम्॥ 25 ॥
उन्मीलद्वदनेन्दुकान्तिविसरैर्दूरे समुत्सारितं भग्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम्।
एतस्याः कलविङ्ककण्टकदलीकल्पं मिलत्कौतुकादप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः॥ 26 ॥


  1. बन्धनात्; [पक्षे] इन्द्रियनिग्रहात्. ↩︎ ↩︎

  2. पुष्पाणाम्; [पक्षे] देवानाम्. ↩︎ ↩︎

  3. केशाः; [पक्षे] अर्भकाः. ↩︎

  4. मौक्तिकानाम्; [पक्षे] जीवन्मुक्तानाम्. ↩︎

  5. कमलकुङ्मलात्. ↩︎

  6. पङ्क्तिः. ↩︎

  7. भ्रमराणाम्. ↩︎