०५ वयःसन्धिवर्णनम्

यथा यथा विशत्यस्या हृदये हृदयेश्वरः।
तथा तथा बहिर्यातौ मन्ये सङ्कोचतः कुचौ॥ 1 ॥
अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम्।
अङ्गीकरोति तन्वङ्गी सा विलासमयं वयः॥ 2 ॥
अन्येयं रूपसम्पत्तिरन्या वैद1ग्ध्यधोरणी2
नैषा नलिनपत्त्राक्षी सृष्टिः साधारणी विधेः॥ 3 ॥

अनायासकृशं मध्यमशङ्कतरले दृशौ।
अभूषणमनोहारि वपुर्वयसि सुभ्रुवः॥ 4 ॥
दृश्यं दृशां सहस्रैर्मनसामयुतैर्विभावनीयं च।3
सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवो जयति॥ 5 ॥

न्यञ्चति4 वयसि प्रथमे समुदञ्चति तरुणिमनि सुदृशः।
दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम्॥ 6 ॥

यदवधि विलासभवनं यौवनमुदियाय5 चन्द्रवदनायाः।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते॥ 7 ॥

अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू।
6कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्॥ 8 ॥

7मृदुलवलिललितमध्यं 8पृथुलकुचं 9चारु विपुलभूजघनम्10
11पुंनागस्पृहणीयं स्फुरति वनं यौवनं च नारीणाम्॥ 9 ॥

सम्भिन्नयोरमुष्या वयसोः पयसोरिवाङ्गेषु।
अनयो रसद्विभेदं मानसजन्मा परं वेद॥ 10 ॥
स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम्।
विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति॥ 11 ॥
उदयति तरुणिमतरणौ शैशवशशिनि प्रशान्तिमायाते।
कुचचक्रवाकयुगलं तरुणितटिन्यां मिथो मिलति॥ 12 ॥
अचलं चलदिव चक्षुः प्रकृतमपीदं समुद्यदिव वक्षः।
अतदिव तदपि शरीरं सम्प्रति वामभ्रुवो जयति॥ 13 ॥
अयमङ्कुरभाव एव तावत्कुचयोः कर्षति लोकलोचनानि।
इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री॥ 14 ॥
परिहरति यथा यथा वयोऽस्याः स्फुरदुरुकन्दलशालिबालभावम्।
द्रढयति धनुषस्तथा तथा ज्यां स्पृशति शरानपि सज्जयन्मनोभूः॥ 15 ॥
निशितशरधियार्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले1
दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः॥ 16 ॥

यथा यथास्याः कुचयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम्।
अहो सहन्ते बत नो परोदयं निसर्गतोऽन्तर्मलिना ह्यसाधवः॥ 17 ॥
समं विलासोऽङ्कुरितः स्तनाभ्यां त्रपा विलासेन सहावतीर्णा।
अवर्ततान्यस्त्रपयैव साकं कान्तः प्रकारो वचसां कृशाङ्ग्याः॥ 18 ॥
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम्।
बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन॥ 19 ॥
असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साधु वयः प्रपेदे॥ 20 ॥
आवृणोति यदि सा मृगीदृशी स्वाञ्चलेन कुचकाञ्चनाचलम्।
भूय एव बहिरेति गौरवादुन्नतो न सहते तिरस्क्रियाम्॥ 21 ॥
अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि।
मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतलोचनायाः॥ 22 ॥
भ्रूपल्लवो धनुरपाङ्गतरङ्गितानि बाणा गुणाः श्रवणपालिरिति स्मरेण।
तस्यामनङ्गजयजङ्गमदेवतायामस्त्राणि निर्जितजगन्ति किमर्पितानि॥ 23 ॥
दृशोः सीमावादः श्रवणयुगलेन प्रतिकलं स्तनाभ्यां संरुद्धे हृदि मनसिजस्तिष्ठति बलात्।
नितम्बः साक्रन्दं क्षिपति रशनादाम परतः प्रवेशस्तन्वङ्ग्या वपुषि तरुणिम्नो विजयते॥ 24 ॥
अनाघ्रातं पुष्पं किसलयमलूनं2 कररुहैर3नाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ 25 ॥

भ्रुवौ काचिल्लीला परिणतिरपूर्वा नयनयोः स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये।
इदानीं बालायाः किममृतमयः किं विषमयः किमानन्दः साक्षाद्ध्वनितमधुरः पञ्चमरवः॥ 26 ॥
अनाकूतैरेव प्रियसहचरीणां शिशुतया वचोभिः पाञ्चालीमिथुनमधुना सङ्गमयितुम्।
उपादत्ते नो वा विरमति न वा केवलमियं कपोलौ कल्याणी पुलकमुकुलैर्दन्तुरयति॥ 27 ॥
प्रगल्भानामन्तः प्रविशति शृणोति प्रियकथां स्वयं तत्तच्चेष्टाशतमभिनयैर्वञ्चयति च।
स्पृहामन्तः कान्ते वहति न समभ्येति निकटं यथैवेयं बाला हरति हि तथा चित्तमधिकम्॥ 28 ॥
स्मितं किञ्चिद्वक्त्रे सरलतरलो दृष्टिविभवः परिस्यन्दो वाचामभिनवविलासोक्तिसरसः।
गतीनामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः॥ 29 ॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः।
चिरं चेतश्चौरा अभिनवविकारैकरुचयो विलासव्यापाराः किमपि विजयन्ते मृगदृशः॥ 30 ॥
अपक्रान्ते बाध्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके।
न केनापि स्पृष्टं यदिह वयसा मर्म परमं यदेतत्पञ्चेषोर्जयति वपुरिन्दीवरदृशः॥ 31 ॥
तदात्वप्रोन्मीलन्म्रदिमरमणीयाः कठिनतां विचित्य प्रत्यङ्गादिव तरुणभावेन घटितौ।
स्तनौ सम्बिभ्राणा क्षणविनयवैयात्यमसृणस्मरोन्मेषाः केषामुपरि न रसानां युवतयः॥ 32 ॥
न शीलं दृग्भङ्गी कलयति कुरङ्गीनयनयोः कुचश्रीः कर्कन्धूफलमपि न बन्धूकृतवती।
सुधायाः सध्रीची न च वचनवीची परिचिता तथापि श्रीरस्या युवजननमस्या विजयते॥ 33 ॥
उतञ्चद्वक्षोजद्वयतटभरक्षोभितकटि स्फुरद्दृग्भ्यां मन्दीकृतविलसदिन्दीवरयुगम्।
समुद्यद्भूभङ्गं प्रविहितधनुर्भङ्गमनिशं वयस्तत्पद्माक्ष्याः कथमिव मनो न व्यथयतु॥ 34 ॥
मुखं विकसितस्मितं 1वशितवक्रिमप्रेक्षितं 2समुच्छलितविभ्रमा गतिरपास्तसंस्था3 मतिः।
उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं4 बतेन्दुवदनातनौ तरुणिमोद्गमो 5मोदते॥ 35 ॥

न दन्तुरमुरःस्थलं वचसि नाश्रिता चातुरी विकारि न विलोकितं भ्रुवि न वक्रिमोपक्रमः।
तथापि हरिणीदृशो वपुषि कापि कान्तिच्छटा पटावृतमहामणिद्युतिरिवात्र सम्लक्ष्यते॥ 36 ॥
इदं परमसुन्दरं तनुपुरं कुरङ्गीदृशां निवार्य खलु शैशवं स्वयमनेन नीतं बलात्।
तदागमनशङ्कया मकरकेतुना किं कृतं पयोधरधराधरौ त्रिवलिवाहिनीदुस्तरौ॥ 37 ॥
स्थिरत्वमचिरद्युतौ तमसि कोऽपि बन्धग्रहो विधौ किमपि सौरभं मधुनि कापि वर्णात्मता।
शिरीषनवदामनि स्फुरति कोऽपि शैलोदयो वयोऽभिनववेधसस्तदिह मन्महे कौशलम्॥ 38 ॥
क्षणं सरलवीक्षणं क्षणमपाङ्गसम्वीक्षणं क्षणं रजसि खेलनं क्षणमतीव भूषादरः।
क्षणं द्रुततरा गतिः क्षणमतीव मन्दा गतिः क्षणक्षणविलक्षणं जयति चेष्टितं सुभ्रुवः॥ 39 ॥
क्षोभं धत्ते यदतिबहलः स्निग्धलावण्यपूरः प्रत्यङ्गं यत्तटमनुसरन्त्यूर्मयो विभ्रमाणाम्।
उन्मग्नं यत्स्फुरति च मनाक्कुम्भयोर्द्वन्द्वमेतत्तन्मन्येऽस्याः स्मरगजयुवा गाहते हृत्तडागम्॥ 40 ॥
मन्दं मन्दं श्रवणपुटकोपान्तगन्ता दृगन्तः किञ्चित्किञ्चिद्विरमति मनो धूलिकेलीरसेभ्यः।
आविर्भावः स्तनमुकुलयोः कापि कान्तिः समन्तादद्य श्वो वा कुसुमधुषो यौवराज्याभिषेकः॥ 41 ॥
सन्नद्धोऽयं नवतरुणिमा काममास्कन्दुकामो नैनां मुञ्चत्यहह सहसा कौतुकी बालभावः।
तद्द्वैराज्यं वरतरतनुस्वर्णभूमौ प्रवृत्तं प्रायस्त्वस्मादनुदिनमयं क्षीयते मध्यदेशः॥ 42 ॥
श्रो1णीबन्धस्त्यजति 2तनुतां सेव्यते मध्यभागः पद्भ्यां मुक्तास्त3रलगतयः संश्रिता लोचनाभ्याम्।
धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं तद्गात्राणां गुणविनिमयः4 कल्पितो यौवनेन॥ 43 ॥

सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन।
विन्यस्यन्ती चरणकमले लीलया स्वैरयातैर्निःसङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी॥ 44 ॥
दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते साशङ्कं तनुकण्टकक्षतभिया क्रीडावने क्रीडति।
धत्ते दिक्षु निरीक्षणं स्मितमुखी पारावतानां रुतैः सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्त्रं वयः॥ 45 ॥
वक्षस्यावरणादरस्तनयुगोद्भेदं विनाप्यङ्गुलीमुद्रासूचितहास्यमास्यमधिकं नो पुत्रिकादौ रसः।
तिर्यग्लोचनवीक्षितानि वचसां छेकोक्तिसङ्क्रान्तयस्तस्याः सीदति शैशवे समभवत्कोऽप्येष नव्यः क्रमः॥ 46 ॥
लावण्यामृतनिर्झरेण सुदृशः सिक्ताखिलाङ्गस्थली जातस्तत्र नवीनयौवनकलालीलालतामण्डपः।
तस्मिन्वेषविशेषशीतलतरच्छायासु सुप्तोत्थितः कन्दर्पस्त्रिजगज्जयोद्यमपरोऽप्यद्यापि निद्रालसः॥ 47 ॥
बाल्ये गेहपतौ निमीलति वयःसन्धिं विधाय स्मरश्चौरश्चारुतरं विवेश निभृतं बालाशरीरालयम्।
चाञ्चल्यं चरणे पृथुत्वमुदरे निर्लज्जतां चेतसि क्षामत्वं हृदये दृशोः सरलतां सर्वस्वमस्याहरत॥ 48 ॥
एतस्यां रतिवल्लभक्षितिपतेः क्रीडासरस्यां शनैः संशोषं नयतीव शैशवजलं तारुण्यतिग्मद्युतिः।
अन्तस्था च यथा यथा विकसति प्रायः कुचोच्चस्थली स्थौल्यं हन्त तथा तथा वितनुते दृक्पीनमीनावली॥ 49 ॥
रेखा काचन कज्जलस्य नयनाम्भोजे मिथः कौशलादालीभिः सरलीकृतापि कुटिलीभावं समालम्बते।
लक्ष्या वक्षसि पाणिपद्मविषमस्पर्शोदयादुन्नतिर्जानीमो वयमेणशावनयने बाल्यं न पाल्यं तव॥ 50 ॥
मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दतां दूरं यात्युदरं च रोमलतिका नेत्रार्जनं धावति।
कन्दर्पम् परिवीक्ष्य नूतनमनोराज्याभिषक्तं क्षणादङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः॥ 51 ॥
दृष्टिः शैशवमण्डना प्रतिकलं लावण्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुचयोः शोभां वनामीहते।
सम्प्राप्ता गुरुतां तथाप्युपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते तन्नेत्रपेयं वयः॥ 52 ॥
तत्तस्याः कमनीयकान्ति विजितत्रैलोक्यनारीवपुः शृङ्गारस्य निकेतनं समभवत्संसारसारं वयः।
यस्मिन्विस्मृतपक्ष्मपालिचलनाः कामालसा दृष्टयो नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव॥ 53 ॥
केलीकौतुकमादराच्छ्रवणयोरालीभिराश्राव्यते बालाभिस्तु पुरः पुरेव रजसि क्रीडार्थमाहूयते।
चेतो याति न वा ततस्तदुभयोरेणीदृशः साम्प्रतं मध्ये चुम्बकयोरयःशकलवन्निष्पक्षपातं मनः॥ 54 ॥
उत्तालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः।
तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसङ्क्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः॥ 55 ॥
1मात्रा नर्तनपण्डितभ्रु वदनं किञ्चित्प्रगल्भे दृशौ स्तोकोद्भेदनिवेशितस्तनमुरो मध्यं दरिद्राति च।
अस्या यज्जघनं घनं च कलया प्रत्यङ्गमेणीदृशः सत्यंकारमिव स्मरैकसुहृदा तद्यौवनेनार्पितम्॥ 56 ॥

लावण्यामृतमाहितं वरतनोरङ्गे स्थितं यत्पुरा तत्तारुण्यघनोदयेन बहुधा सम्वर्धितं पद्मभूः।
वीक्ष्य स्यन्दनशङ्कितः कुचयुगव्याजान्नितम्बस्थलाच्चक्रे सेतुयुगं न चेदिह कुतस्तादृग्रसस्थास्नुता॥ 57 ॥
विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं रेखोद्भासिकृतं वलित्रयमिदं न स्पष्टनिम्नोन्नतम्।
मध्येऽस्या ऋजुरायतार्धकपिशा रोमावली निर्मिता रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते॥ 58 ॥
चाञ्चल्यं चरणौ विहाय नयनप्रान्तं प्रतिष्ठासते वस्तुं वाञ्छति वाचि काचिदमृतस्पर्धाकरी माधुरी।
कान्तिः काचन वक्षसो विजयते तन्व्या दुकूलाञ्चलं तन्मन्ये दिवसैः कियद्भिरतनुर्जेता जगन्मण्डलम्॥ 59 ॥
आलापान्भ्रूविलासो विरलयति लसद्बाहुविक्षिप्ति यातं नीविग्रन्थिं प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः।
उत्पुष्यत्पार्श्वमूर्च्छत्कुचशिखरमुरो नूनमन्तः स्मरेण स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यते यौवनश्रीः॥ 60 ॥


  1. चातुर्यम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. परिपाटी. ↩︎ ↩︎ ↩︎ ↩︎

  3. ध्येयम्. ↩︎ ↩︎ ↩︎ ↩︎

  4. गच्छति सति. ↩︎ ↩︎ ↩︎

  5. उदयं प्राप. ↩︎ ↩︎

  6. स्पृहणीयम्. ↩︎

  7. मृद्वी या लवलिर्वृक्षविशेषस्तेन ललितो मध्यभागो यस्य तत्; [पक्षे] मृदुला या वलयो वलित्रितयं तेन ललितो मध्यो यस्मिन्. ↩︎

  8. पृथवः स्थूला लकुचा यस्मिन्; [पक्षे] पृथुलौ कुचौ यस्मिन्. ↩︎

  9. सुन्दरम्. ↩︎

  10. विपुला ये भूजा वृक्षास्तैर्घनं निबिडम्; [पक्षे] विपुला भूर्येषां ते विपुलभुव एतादृशा जघना यस्मिंस्तत्. बहुप्रदेशव्यापकजघनमित्यर्थः. ↩︎

  11. पुंनागैः केसरवृक्षैः स्पृहणीयम्; [पक्षे] पुरुषश्रेष्ठैः स्पृहणीहम्. ↩︎