०४ बालावर्णनम्

अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम्।
विधिना तावदभ्यस्तं यावत्सृष्ट मृगेक्षणा॥ 1 ॥
न देवकन्यका नापि गन्धर्वकुलसम्भवा।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम्॥ 2 ॥
इयं व्याधायते बाला भ्रूरस्याः कार्मुकायते।
कटाक्षाश्च शरायन्ते मनो मे हरिणायते॥ 3 ॥
मनोऽपि शङ्कमानाभिर्बालाभिरुपजीव्यते।
अषडक्षीणषाड्गुण्यमन्त्री मकरकेतनः॥ 4 ॥
अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा।
तारकातरला श्यामा सानन्दं न करोति कम्॥ 5 ॥
निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम्।
क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा॥ 6 ॥
प्रेङ्खणप्रेक्षणालापान्कुर्वत्यः सस्मितत्रपम्।
न वीणायाः प्रवीणायाः स्वञ्जनं स्मररञ्जनम्॥ 7 ॥
दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं कमपि।
इत्यपवादभयादिव मुग्धाक्षी निर्मिता विधिना॥ 8 ॥
मीनवती नयनाभ्यां चरणाभ्यामपि सुफुल्लकमलवती।
शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी॥ 9 ॥
अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी।
किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे॥ 10 ॥
अमृतं तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतम्।
अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टिरपरैव॥ 11 ॥
स्तनकलशस्खलदम्बरसम्वरणव्यग्रपाणिकमलायाः।
निपतन्ति भाग्यभाजामुपरि कटाक्षाः सरोजाक्ष्याः॥ 12 ॥
कुङ्कुमपङ्केनाङ्कितदेहा गौरपयोधरकम्पितहारा।
नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा॥ 13 ॥
मन्दमन्दगमना करिणी किं वा विशालनयना हरिणी किम्।
पूर्णचन्द्रमदना रजनी किं पश्य गच्छति सखे तरुणी किम्॥ 14 ॥
उत्तुङ्गस्तनभरतान्ततान्तमध्यं विश्लिष्यद्धनकचवान्तवान्तसूनम्।
वक्त्राब्जभ्रमदलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति॥ 15 ॥
उदयदुदयदीक्षणाय पत्युश्चपलदृशस्त्रपया निरुध्यमानम्।
मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः॥ 16 ॥
अदम्भा हि रम्भा विलक्षा च लक्ष्मीर्घृताची ह्रिया चीरसंच्छादितास्या।
अहो जायते मन्दवर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम्॥ 17 ॥
एकान्तसुन्दरविधानजडः क्व वेधाः1 सर्वाङ्गकान्तिचतुरं क्व च रूपमस्याः।
मन्ये महेश्वरभयान्मकरध्वजेन प्राणार्थिना 2युवतिरूपमिदं गृहीतम्॥ 18 ॥

किं कौमुदीः शशिकलाः सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात्।
कामस्य घोरहरहुंकृतिदग्धमूर्तेः सञ्जीवनौषधिरियं विहिता विधात्रा॥ 19 ॥
नेदं मुखं मृगवियुक्तशशाङ्कबिम्बं नेमौ स्तनावमृतपूरितहेमकुम्भौ।
नैवैलकावलिरियं मदनास्त्रशाला नैवेदमक्षियुगलं निगडं हि यूनाम्।3॥ 20 ॥

चित्ते निवेश्य परिकल्पितसत्त्वयोगान्रूपोच्चयेन विधिना विहिता कृशाङ्गी।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥ 21 ॥
चन्द्रो जडः कदलिकाण्डमकाण्डशीतमिन्दीवराणि च विमुद्रितविभ्रमाणि।
येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिकां क्वचिदशीतरुचिः प्रसूते॥ 22 ॥
निर्मुक्तसैशवदशाशिशिरा नवीनसम्प्राप्तयौवनवसन्तमनोरमश्रीः।
उन्मीलितस्तननवस्तबका निकाममेणीदृशस्तनुलता तनुते मुदं नः॥ 23 ॥
नीलोत्पलोल्लसितखञ्जनमञ्जुनेत्रा सम्पूर्णशारदसुधाकरकान्तवक्त्रा।
बाला जगत्त्रितयमोहनदिव्यमूर्तिर्मन्ये विभाति जगति स्मरवीरकीर्तिः॥ 24 ॥
एताः स्खलद्वलयसंहृतिमेखलोत्थझङ्कारनूपुररवाहृतराजहंसाः।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो विश्वस्तमुग्धहरिणीसदृशैः कटाक्षैः॥ 25 ॥
एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा।
यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणस्तरुणं हिनस्ति॥ 26 ॥
1अपाङ्गतरले दृशौ तरलवक्रवर्णा गिरो 2विलासभरमन्थरा गतिरतीव कान्तं मुखम्।
इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः 3कृतपदोऽपि संलक्ष्यते॥ 27 ॥

दृशः पृथुतरीकृता जितनिजाब्जपत्त्रत्विषश्चतुर्भिरपि साधुसाध्विति मुखैः समं व्याहृतम्।
शिरांसि चलितानि विस्मयवशाद्ध्रुवं वेधसो विधाय ललनां जगत्त्रयललामभूतामिमाम्॥ 28 ॥
क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिणतैः क्वचिद्भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः।
नवोढानामेभिर्वदनकमलैर्नेत्रचलितैः स्फुरल्लीलालीनाप्रकरपरिपूर्णा इव दृशः॥ 29 ॥
अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति।
पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता॥ 30 ॥
समीचीना चीनांशुकपरिवृताङ्गी प्रविलसत् कुचापीना हीना जघनघनभागेऽब्जवदना।
न दीना दीनान्तःकलितमदना सेयमधुना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः॥ 31 ॥
स्फुरन्नानारत्नारुणितवसना वृत्तमसृणस्तनापीना मत्ता तरलजघना हंसगमना।
स्मराधीनासीना कविहृदि जिताशेषललना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः॥ 32 ॥
उदासीनालीनामपि वचसि लीनातमुलसत्त्रपाधीना दीनालपनपदवीनायकधृता।
कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः॥ 33 ॥
निलीना वेश्मान्तः कथमपि सखीनामभिहितैः कृताधीना हीनाकृतिरपि मतीनामविषया।
कवीनामज्ञत्वं ज्ञपयति विपीना तनुतया नवीना मीनाक्षी व्यथयति मुनीनामपि मनः॥ 34 ॥
कुचाभ्यां भास्वन्ती विजितलकुचाभ्यां युवमनो हरन्ती बिब्बोकैः सरसि विहरन्ती मधुरगीः।
तरुण्या लावण्यं किमपि विदधानार्भकविधौ नवीना मीनाक्षी व्यथयति मुनीनामपि मनः॥ 35 ॥
अमलमृणालकाण्डकमनीयकपोलरुचेस्तरलसलीलनीलनलिनप्रतिफुल्लदृशः।
विकसदशोकशोणकरकान्तिभृतः सुतनोर्मदलुलितानि हन्त ललितानि हरन्ति मनः॥ 36 ॥
किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं किमब्जे किं मीनौ किमु मदनबाणौ किमु दृशौ।
खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलितकां वा किमबला॥ 37 ॥
तनुस्पर्शादस्या दरमुकुलिते हन्त नयने उदञ्चिद्रोमाञ्चं व्रजति जडतामङ्गमखिलम्।
कपोलौ घर्मार्द्रौ ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्॥ 38 ॥
मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैरलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः। असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितैस्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम्॥ 39 ॥
कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः पञ्चबाणः कृपाणः (?)।
तत्रोत्पन्ना यदि किल भवेत्काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुब्रुवः सौकुमार्यम्॥ 40 ॥
लावण्यामृतदीर्घिका कुलगृहं सौन्दर्यसौभाग्ययोस्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्रं समाः।
रूपालोकनकौतुकेन बहुना शिल्पश्रमेणादरान्मन्ये यां विधिना विहाय विहितं सृष्टेर्घ्वजारोपणम्॥ 41 ॥
अस्याः 1सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं 2पुराणो मुनिः॥ 42 ॥

वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्ण3मपाकरिष्णुरलिनीजिष्णुः4 कचानां चयः।
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचां 5हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम्॥ 43 ॥

6अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वाचं यमत्वव्रतम्।7
अङ्गानामकठोरता यदि 8दृषत्प्रायैव सा मालती कान्तिश्चेत्कमला9 किमत्र बहुना 10कापायमालम्बताम्॥ 44 ॥

निर्मित्सुः11 सुदतीमजो12 विरचिते वक्त्रे शशिभ्रान्तितः कोशी13भूतनिजाम्बुजासनमधिष्ठातुं न शक्तो विधिः।
मध्यं विस्मृतवान्कुचौ च कठिनौ पीनौ नितम्बौ कचान्वक्रान्निर्मितवान्मतिः स्फुरति हि स्वस्थे नृणां चेतसि॥ 45 ॥

सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया॥ 46 ॥
दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसम्भोगवार्तास्वपि।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः॥ 47 ॥
आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी संनाहः स्तनयोरयं कलयते सम्भोगयोग्यां दशाम्।
वैदग्ध्येन सहासिकां वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरैन्दवीं न सहते मुख्यामभिख्यां मुखम्॥ 48 ॥


  1. ब्रह्मा. ↩︎ ↩︎ ↩︎

  2. स्त्रीरूपम्. ↩︎ ↩︎ ↩︎

  3. शृङ्खला. ↩︎ ↩︎ ↩︎

  4. जयशीलः. ↩︎

  5. मनोहरम्. ↩︎

  6. मिथो भाषणम्. ↩︎

  7. मौनव्रतम्. ↩︎

  8. पाषाणरूपा. ↩︎

  9. लक्ष्मीः. ↩︎

  10. काषायवस्त्रम्. ↩︎

  11. निर्मातुमिच्छुः. ↩︎

  12. ब्रह्मा. ↩︎

  13. मुकुलीभूतस्वकीयकमलासनम्. ↩︎