०३ युववर्णनम्

अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे।
तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः॥ 1 ॥
किमस्य रोम्णां कपटेन कोटिभिर्विधिर्न लेखाभिरजीगणद्गुणान्।
न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यबिन्दवः॥ 2 ॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता।
उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता॥ 3 ॥
स्वकेलिलेशस्मितनिन्दितेन्दुनो निजांशदृक्तर्जितपद्मसम्पदः।
अतद्द्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे॥ 4 ॥
सरोरुहं तस्य दृशैव तर्जितं जिताः स्मितेनैव विधोरपि श्रियः।
कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता॥ 5 ॥
स्वबालभारस्य तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषतः।
अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोलनच्छलात्॥ 6 ॥
निमीलनभ्रंशजुषा दृशा भृशं निपीय तं यस्त्रिदशीभिरर्जितः।
अमूस्तमभ्यासभरं विवृण्वते निमेषनिः1स्वैरधुनापि लोचनैः॥ 7 ॥

विलोकयन्तीभिरजस्रभावनाबलादमुं तत्र निमीलनेष्वपि।
अलम्भि मर्त्याभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितः॥ 8 ॥
न का निशि स्वप्नगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम्।
तदात्मताध्यातधवा रते च का चकार वा न स्वमनोभवोद्भवम्॥ 9 ॥


  1. निर्निमेषैः. ↩︎