०२ स्त्रीप्रशंसा

दृशा दग्धं 1मनसिजं 2जीवयन्ति दृशैव याः।
3विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः॥ 1 ॥

न हयैर्न च मातङ्गैर्न रथैर्न च पत्तिभिः।
स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां त्रयम्॥ 2 ॥
सोमः शौचं ददौ तासां गन्धर्वाश्च शुभां गिरम्।
अग्निः सर्वाङ्गकान्तित्वं तस्मान्नि4ष्कसमाः स्त्रियः॥ 3 ॥

स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित्।
मासि मासि रजो यासां दुष्कृतान्यपकर्षति॥ 4 ॥
अमृतस्येव कुण्डानि रत्नानामिव राशयः।
रतेरिव निधानानि निर्मिताः केन योषितः॥ 5 ॥
प्राणानां च प्रियायाश्च मूढाः सादृश्यकारिणः।
प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः॥ 6 ॥
अकृत्रिमप्रेमरसा विलासालसगामिनी।
असारे दग्धसंसारे सारं सारङ्गलोचना॥ 7 ॥
हरिणप्रेक्षणा यत्र गृहिणी न विलोक्यते।
सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम्॥ 8 ॥
यासामञ्चलवातेन दीपो निर्वाणतां गतः।
तासामालिङ्गने पुंसां नरके पतनं कुतः॥ 9 ॥
नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम्।
यस्याः सङ्गेन जीव्येत म्रियेत च वियोगतः॥ 10 ॥
यासां नाम्नापि कामः स्यात् सङ्गमं दर्शनं विना।
तासां दृक्सङ्गमं प्राप्य यन्न द्रवति कौतुकम्॥ 11 ॥
यावद्दृष्टिर्मृगाक्षीणां नो नरीनर्ति भङ्गुरा।
तावज्ज्ञानवतां चित्ते विवेकः कुरुते पदम्॥ 12 ॥
समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि।
दष्टाश्च दशनैः कान्तं दासीकुर्वन्ति योषितः॥ 13 ॥
ज्योत्स्नेव नयनानन्दः 5सुरेव मदकारणम्।
प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी॥ 14 ॥

कार्पासकृतकूर्पासशतैरपि न शाम्यति।
शीतं शातोदरीपीनवक्षोजालिङ्गनं विना॥ 15 ॥
सम्पन्न रमणी शीलसम्पन्नरमणीं विना।
इत्यूढवान्नरमणी रमणीं रुक्मिणीं हरिः॥ 16 ॥
पादसंवाहने 6वज्री केशसंमार्जने 7फणी।
अहो भाग्यं पुरन्ध्रीणां दधिसंमन्थने रविः8॥ 17 ॥

प्रभवति मनसि विवेको विदुषामपि शास्त्रसम्भवस्तावत्।
निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम्॥ 18 ॥
सन्तु विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः।
स्मरणमपि कामिनीनामलमिह मनसो विकाराय॥ 19 ॥
ह्लादनतापनशक्ती सहजे स्तः सुभ्रुवां कटाक्षेषु।
तत्राद्या प्रबला स्यान्नेदीयस्त्वे परा दवीयस्त्वे॥ 20 ॥
अवलोकनमपि सुखयति कुवलयदलचारुचपलनयनायाः।
किं पुनरमृतसमानं सरभसमालिङ्गनं तस्याः॥ 21 ॥
व्रीडावेलारुद्धं सागरसलिलमिव योषितां हृदयम्।
रागेन्दुरुदयमानो भूयो भूयस्तरङ्गयति॥ 22 ॥
आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः।
पुरतः स्थितैव सिद्धौषधिवल्ली कापि जीवयति॥ 23 ॥
4उपनिषदः 5परिपीता गीतापि च हन्त मतिपथं नीता।
तदपि न हा विधुवदना मानससदनाद्बहिर्याति॥ 24 ॥

यस्य न सविधे यदिता दवदहनस्तुहिनदीधितिस्तस्य।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य॥ 25 ॥
यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः।
तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये॥ 26 ॥
स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः।
यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि योषितोऽप्सरसः॥ 27 ॥
6अकृशं कुचयोः कृशं वलग्ने विततं चक्षुषि विस्तृतं नितम्बे।7
अरुणाधरमाविरस्तु चित्ते करुणाशालि 8कपालिभागधेयम्॥ 28 ॥

अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं9 दुकूलम्।
इदमाभरणं नितम्बिनीनामितरद्भूषणमङ्गदूषणाय॥ 29 ॥

रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या।
चेतो वनिताहरन्त्यरत्ना नो रत्नानि विनाङ्गनाङ्गसङ्गात्॥ 30 ॥
तावदेव विदुषां विवेकिनी बुद्धिरस्ति भवबन्धभेदिनी।
यावदिन्दुवदना न कामिनी वीक्षिता रहसि हंसगामिनी॥ 31 ॥
तरुणिमनि कृतावलोकना ललितविलासविलब्धविग्रहा।
स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः॥ 32 ॥
तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः।
यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः॥ 33 ॥
जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः।
तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य सारः॥ 34 ॥
1आस्यं 2सहास्यं नयनं सलास्यं सिन्दूरबिन्दूदयशोभि भालम्।
नवा च वेणी हरिणीदृशश्चेदन्यैरगण्यैरपि भूषणैः किम्॥ 35 ॥

मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम्॥ 36 ॥
स्मितेन भावेन च लज्जया भिया3 पराङ्मुखैरर्धकटाक्षवीक्षणैः।
वचोभिरीर्ष्या10कलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः॥ 37 ॥

अविश्वसन्धूर्तधुरन्धरोऽपि नरः पुरन्ध्रीपुरतोऽन्ध एव।
अशेषशिक्षाकुशलोऽपि काकः 11प्रतार्यते किं न पिका12ङ्गनाभिः॥ 38 ॥

उडुराजमुखी मृगराजकटिर्गजटाजविराजितमन्दगतिः।
यदि सा वनिता हृदये निहिता क्व जपः क्व तपः क्व समाधिरतिः॥ 39 ॥
तदाखण्डलाशा महीमण्डलाशां तथा भोगिभोगानुरागं त्यजामः।
मनःक्षोभदक्षान्कृपातः कटाक्षान्कुरङ्गेक्षणाश्चेत्क्षणं पातयन्ति॥ 40 ॥
भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जिताश्चैव हासाः।
लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं च॥ 41 ॥
नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीस्ताः।
याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः॥ 42 ॥
नान्दीपदानि रतिनाटकविभ्रमाणामाद्याक्षराणि परमाण्यथवा स्मरस्य।
दष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कारशुष्करुदितानि जयन्ति नार्याः॥ 43 ॥
अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः।
इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा॥ 44 ॥
द्रुतं यस्यालोकाद्विरहिजनशोकापनयनं यदङ्के सानन्दं नयनमरविन्दं विहरति।
न यस्यापैति श्रीः कचनिचयराहोरपि पुरः स मे खेदं रामा4वदनहिमधामा शमयतु॥ 45 ॥

श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादजननं न रत्नं स्त्रीभ्योऽन्यत्क्वचिदपि कृतं लोकपतिना।
तदर्थं धर्मार्थौ विभववरसौख्यानि च ततो गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः॥ 46 ॥
ललाटे कस्तूरीतिलकमबलाः कज्जलरुचिं दृशोः कर्णद्वन्द्वे विमलमणिताटङ्कयुगलम्।
गले मुक्तामालां शुचि वसनमङ्गे च सततं वशीकर्तुं विश्वं दधति खलु बाह्योपकरणम्॥ 47 ॥
भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विदग्धालापानां वयमपि कवीनामनुचराः।
तथाप्येतद्ब्रूमो न हि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम्॥ 48 ॥
विमुञ्चति बुधो जनः सुकृतचिन्तनं दूरतो जहाति च मुनिस्तपस्त्यजति धीरतां शंकरः।
विधिर्भवति चञ्चलस्त्रिजगतीपतिः क्षुभ्यति क्षणं कुटिलदृष्टयो यदि पतन्ति वामभ्रुवः॥ 49 ॥
अमृतममृतं कः सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्।
सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियारदनच्छदात्॥ 50 ॥
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डितानाम्।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः॥ 51 ॥
किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयमिह पुरुषाणां सर्वदा सेवनीयम्।
अभिनवमदलीलालालसं सुन्दरीणां स्तनभरपरिखिन्नं यौवनं वा वनं वा॥ 52 ॥
यासां सत्यपि सद्गुणानुसरणे दोषानुरागो भृशं याः प्राणान्परमर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मकस्तत्तत्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ताः॥ 53 ॥
स्त्रीमुद्रां कुसुमायुधस्य परमां सर्वार्थसम्पत्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे॥ 54 ॥
द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं ग्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु किं तद्वचः।
किं स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्घ्येयं किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमः॥ 55 ॥
यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं यत्तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणः।
तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः॥ 56 ॥
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः।
शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत् सागरे॥ 57 ॥
आलोलैरुपगम्यते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतम्।
अङ्गानामनुलेपनं परिमलैरालेपनप्रक्रिया वेषः कोऽपि सरोजसुन्दरदृशः सूते सुखं चक्षुषोः॥ 58 ॥
सद्रत्नस्फारहारा भयवरदकरा स्रस्तधम्मिल्लभारा मूलाधाराधिकारा निगमनिधिधरा काव्यकोटिप्रचारा।
संसारानल्पकारा सदनमयहरा चिद्धनैकावतारा तारा शृङ्गारधारा मनसि वसतु ते सर्वदा सर्वसारा॥ 59 ॥
संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां तत्त्वज्ञानामृताम्भः पुलकितमनसां यातु कालः कदाचित्।
नो चेन्मुग्धाङ्गनानां स्तनजघनभराभोगसम्भोगिनीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोभोद्यतानाम्॥ 60 ॥
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्तधैर्यं कथममलधियो मानसं सम्विदध्युः।
यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभागास्तरुण्यः॥ 61 ॥


  1. कामम्. ↩︎ ↩︎

  2. जीवन्तं कुर्वन्ति. ↩︎ ↩︎

  3. शिवस्य. ↩︎ ↩︎

  4. सुवर्णसदृशाः. ↩︎ ↩︎ ↩︎

  5. मद्यमिव. ↩︎ ↩︎

  6. पादस्थमलनिर्हरणार्थं कृतो भर्जितेष्टकाखण्डो वज्रीति लोके कथ्यते; [पक्षे] इन्द्रः. ↩︎ ↩︎

  7. दन्तपत्रिका; [पक्षे] शेषः. ↩︎ ↩︎

  8. मन्थाः; [पक्षे] सूर्यः. ↩︎ ↩︎

  9. स्वच्छम्. ↩︎

  10. प्रमयकोपेन. ↩︎

  11. वञ्च्यते. ↩︎

  12. कोकिलाभिः. ↩︎