अनङ्गेनाबलासङ्गाज्जिता येन जगत्त्रयी।
स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः॥ 1 ॥
एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः।
धन्वी स मार एकैको द्वयोरैक्यं करोति यः॥ 2 ॥
न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः।
तथापि जितमेवासीदमुना भुवनत्रयम्॥ 3 ॥
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः।
हरतापि तनुं यस्य शंभुना न हृतं बलम्॥ 4 ॥
कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने।
नमोऽस्त्वार्यवीर्याय तस्मै मकरकेतवे॥ 5 ॥
बाणेष्वारोप्य गुणान् विधाय चापं वियोगिनीनयने।
स्वयमतनुर्जगदेतज्जयति सुमास्त्रो विचित्रधानुष्कः॥ 6 ॥
सम्पदमतरललभ्यामनन्यसामान्यबहलदर्पनिधेः।
पुष्णातु चित्तयोनेरघटितघटनापटीयसी विभुता॥ 7 ॥
याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन।
वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ॥ 8 ॥
जयति मनसिजः सुखैकहेतुर्मिथुनकुलस्य वियोगिनां कठोरः।
वपुषि यदिषुपातवारणार्थं वहति वधूं शशिखण्डमण्डनोऽपि॥ 9 ॥
चेतोभुवश्चापवति प्रसङ्गे का वा कथा मानुषलोकभाजाम्।
हर्तुः पुरामप्यलिकेक्षणस्य तथाविधं पौरुषमर्धमासीत्॥ 10 ॥
शिव शिव हि शिवेन पुष्पधन्वा 1प्रलयनटेन किमित्यकारि2 भस्म।
स हि पुनरुदित3श्छ4लाय लोके स तु मणिमन्त्रमहौषधै5रसाध्यः॥ 11 ॥
शंभुस्वयंभुहरयो 6हरिणेक्षणानां येनाक्रियन्त सततं 7गृहकर्मदासाः।
वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते 8कुसुमायुधाय॥ 12 ॥
वक्षःस्थलीवदनवामशरीरभागैः पुष्यन्ति यस्य विभुतां पुरुषास्त्रयोऽपि।
सोऽयं जगत्त्रितयजित्वरचापधारी मारः परान्प्रहरतीति न विस्मयाय॥ 13 ॥
9स्तोकास्त्रसाधनवता भवता 10मनोज 11स्वैरं जगज्जितमनङ्गतयापि सर्वम्।
स्याच्चेद्भवान्बहुशरः प्रतिलब्धगात्रः कुर्यास्ततो यदपि कर्म कियन्न जाने॥ 14 ॥
हारो जलार्द्रवसनं नलिनीदलानि प्रालेयसीकरमुचस्तुहिनांशुभासः।
यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः॥ 15 ॥
कुलगुरुबलानां केलिदीक्षाप्रदाने परमसुहृदनङ्गो रोहिणीवल्लभस्य।
अपि 12कुसुमपृषत्कैर्देवदेवस्य जेता जयति सुरतलीलानाटिकासूत्रधारः॥ 16 ॥
1हृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति कः पण्डितोऽपि।
किमु कुवलयनेत्राः सन्ति नो नाकनार्यस्त्रि2दशपतिरहल्यां तापसीं यत्सिषेवे॥ 17 ॥
न गम्यो मन्त्राणां न च भवति भैषज्यविषयो3 न चापि 4प्रध्वंसं व्रजति विविधैः शान्तिकशतैः।
भ्रमावेशादङ्गे किमपि विदधद्भङ्गमसमं 5स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च॥ 18 ॥
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युल्लसत्पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्रिकां स्त्रियमहो कामस्य दुश्चेष्टितम्॥ 19 ॥
चन्द्रे शीतलयत्यलीकनयनं शंभोः सुधाशीकरैर्विष्वग्व्याकुलयत्सु संयमधनान्कान्तादृगन्तेषु च।
लीलायै परमैक्षवं धनुरिषून्बिभ्रत्प्रसूनात्मनः स्वच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीरः स्मरः॥ 20 ॥
इक्षुर्दन्व शराः प्रसूनविततिर्भृङ्गावली सिञ्जनी यस्याज्ञावशवर्तिनः प्रमनसो निर्विष्टराष्ट्रादयः।
यद्बाणाभिहता विरञ्चिमुरजिन्मृत्युंजयेन्द्रादयो व्याप्ताशेषमखा इव त्रिभुवनं पायादजेयः स्मरः॥ 21 ॥
प्रासादीयति वैणवादिगहनं दीपीयति द्राक्तमः पर्यङ्कीयति भूतलं दृषदपि श्लक्ष्णोपधानीयति।
कस्तूरीयति कर्दमः किमपरं यूनो रसाविष्टयोर्येनालोकितयोः स वन्द्यमहिमा देवो नमस्यः स्मरः॥ 22 ॥