गतास्ते दिवसा यत्र 1ह्यवज्ञा 2कल्पशाखिनाम्।
औदुम्बरफलेभ्योऽपि स्पृहयामोऽद्य जीवितुम्॥ 84 ॥
नौकां वै भजते तावद्यावत्पारं न गच्छति।
उत्तीर्णे तु नदीपारे नौकायाः किं प्रयोजनम्॥ 85 ॥
एका भूरुभयोरैक्यमुभयोर्दलकाण्डयोः।
शालिश्यामाकयोर्भेदः फलेन परिचीयते॥ 86 ॥
कौस्तुभमुरसि मुरारेः शिरसि शशी द्योतते पुरञ्जयिनः।
ननु जन्मना नु जलधेर्जग्मतुरियतीं गतिं पश्य॥ 87 ॥
साधो कुण्डलघटनापरिश्रमादलमविद्धकर्णा पूः।
वसति दिगम्बरनगरे रजकश्चतुरोऽपि किं कुरुते॥ 88 ॥
शतपदी सति पादशते क्षमा यदि न गोष्पदमप्यतिवर्तितुम्।
किमियता द्विपदस्य हनूमतो जलनिधेः क्रमणे विवदामहे॥ 89 ॥
हे मल्लि हे मालति हे लवङ्गि न तादृशी क्वापि भवादृशीनाम्।
क्षणं समाधाय मधुव्रतं या विस्मारयेदम्बुजिनीवियोगम्॥ 90 ॥
यः कुन्तपाणिरिह भूप इति प्रसिद्धो भूखण्डमात्रविभवः परसेवकश्च।
तस्यात्मजः सततमिच्छति राजशब्दं व्रीडे जगज्जननि हन्त निराश्रयासि॥ 91 ॥
इन्द्रो यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्यसकृद्यदुक्तिः।
भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य फलमिन्धनमुद्वहामि॥ 92 ॥
आः सर्वतः स्फुरतु कैरवमा पिबन्तु ज्योत्स्नाकरम्भमुदरं भरयश्चकोराः।
यातो यदेष चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः॥ 93 ॥
खरनखरविमुक्ता रक्तरक्ताश्च मुक्ताः परिणतबदराणां विभ्रमेणोपगृह्य।
सपदि सरसि धौताः प्रत्यभिज्ञाय मुक्ता इति किरति किराती हन्त कान्तार एव॥ 94 ॥
अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः पोतोपाया इव हि बहवो लङ्घनेऽपि क्षमन्ते। आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः॥ 95 ॥
इयत्येतस्मिन्वा निरवधिचमत्कृत्यतिशये वराहो वा राहुः प्रभवति चमत्कारविषयः।
महीमेको मग्नां यदयमवहद्दन्तमुसलैः शिरःशेषः शत्रुं निगिलति परं सन्त्यजति च॥ 96 ॥
श्रुत्वा कुम्भसमुद्भवेन मुनिना किञ्चित्तदात्याहितं सिन्धा3वन्धुकुटुम्बदर्दुरकुलं हर्षादिदं ध्यायति।
गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकीशिशोरत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम्॥ 97 ॥
वक्रां नैष तनूविवर्तनगतिं गृह्णाति साचिस्मितस्मेरैर्दृग्वलनैरमुष्य न मनाक्चेतः परावर्तते।
हस्ते त्वं मुनिदारकस्य पतिता कल्याणि तन्नीयतां वेदीमार्जनबर्हिरर्पणवषट्कर्तव्यपाकैर्वयः॥ 98 ॥
सन्त्यन्येऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषास्तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते।
द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ भासुरौ भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषीकृतः॥ 99 ॥
वीणाप्येकगुणेन राजरमणीनीरन्ध्रपीनस्तनद्वन्द्वे खेलति शुष्कदारुनिचया निःसारतुम्बीफला।
चञ्चत्पार्विकशर्वरीपरिवृढप्रौढप्रथाभासुरं मुक्ताजातमपीह निर्गुणतया योग्यं न सम्भाव्यते॥ 100 ॥
तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति।
माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः॥ 101 ॥
कस्मै हन्त फलाय सज्जनगुणग्रामार्जने सज्जसि स्वात्मोपस्करणाय चेन्मय वचः पथ्यं समाकर्णय।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृतास्तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्धनम्॥ 102 ॥
मर्यादानिलयो महोदधिरयं रत्नाकरो निश्चितः सर्वाशापरिपूरकोऽनुगमितः सम्पत्तिहेतोर्मया।
शम्बूकोऽपि न लभ्यते किमपरं रत्नं महार्घं परं दोषोऽयं न महोदधेः फलमिदं जन्मान्तरीयं मम॥ 103 ॥
एकः कर्णमहीपतिः प्रतिदिनं लक्षाधिका याचकाः कस्मै किं वितरिष्यतीति मनसा चिन्तां वृथा मा कृथाः।
आस्ते किं प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रविश्चन्द्रः किं प्रतिकैरवं प्रतिलतागुल्मं किमम्भोधरः॥ 104 ॥