५३ वसन्तः

धूमायिता दशदिशो दलितारविन्दा देहं दहन्ति दहना इव गन्धवाहाः।
त्वामन्तरेण मृदुताम्रदलाम्रमञ्जुगुञ्जन्मधुव्रत मधो किल कोकिलस्य॥ 82 ॥