४७ लम्पाकः

प्रागल्भ्यं प्रथयन्यशो विशदयन्धाटीं मुखे योजयन्भूपानां कलयन्कथां विरचयन् हस्ताङ्गुलीः स्फोटयन्।
दानं पल्लवयन्गुणं द्विगुणयन्नेत्राञ्चलं घूर्णयल्ल1म्पाकः सविधं समेत्य सुदृशां किं नाम नो भाषते॥ 76 ॥


  1. लम्पटो धूर्तो वा. ↩︎