४३ कलशः

भ्रातः 1काञ्चनलेपगोपितबहिस्ताम्राकृते सर्वतो मा भैषीः कलश स्थिरो भव चिरं देवालयस्योपरि।
ताम्रत्वं गतमेव काञ्चनमयी कीर्तिः स्थिरा तेऽधुना नान्तस्तत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धयः॥ 72 ॥


  1. काञ्चनलेपेन गोपिता बाह्या ताम्राकृतिर्यस्य. ↩︎