४२ कुम्भः

दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः।
यज्जीवनदानैस्त्वं तर्षामर्षं नृणां हरसि॥ 70 ॥
श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः क्लेशः श्लाघ्यतरः सुपङ्कनिचयैः श्लाघ्योऽतिदाहानलः।
यत्कान्ताकुचपार्श्वबाहुलतिकाहिन्दोललीलासुखं लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते॥ 71 ॥