गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा। उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम्॥ 68 ॥ प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते। नयसि गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे॥ 69 ॥