रक्ष पात्रगतं स्नेहं प्रदीप 1श्रीविवर्धनम्।
प्रयास्यन्ति विना तेन भस्मत्वं यद्भवद्गुणाः॥ 62 ॥
बहिरतिनिर्मलरूपं वहतस्ते दीप दैवतो जगति।
अवगतमचिरादान्तरमौज्ज्वल्यं कज्जलद्वारा॥ 63 ॥
न मणेरितोऽधिका भा नो मृदुता न प्रकाशसमता वा।
अचिरस्थितिरिति दीपो न हि बहुमूल्योऽभवत्प्रायः॥ 64 ॥
यां कान्तिं वहसि परां प्रदीप भद्र स्वीयासाविति हृदि मा स्म मन्यथास्त्वम्।
सस्नेहे त्वयि निशि भानुनाहितासौ नैवं चेदहनि सति क्व वा गता सा॥ 65 ॥
प्रदीप किमु कुप्यसि प्रलयमारुतप्रज्वलत्प्रभापटलपाटलप्रकटपावकव्यक्तये।
त्वमङ्ग किमु कामिनीकुचतटीपटीपल्लवप्रकम्पनपरिस्फुरत्पवनलेशपारं गतः॥ 66 ॥
रे रे दीप तिरस्कृताखिलतमःस्तोमारिवर्गस्य ते रात्रौ गूढनिजाङ्गपाति शलभाघातेन किं पौरुषम्।
तत्कर्माचर येन तावकयशो भूयात्प्रभाते पुनर्न स्नेहो न च सा दशा नहि परं ज्योतिः परं स्थास्यति॥ 67 ॥
-
शोभा. ↩︎