अयि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया।
अलं खेदेन भूपालाः किं न सन्ति महीतले॥ 57 ॥
यद्यपि दैवाल्लब्धा कस्तूरीभूमिरत्र भूरितरम्।
नेया किमसौ तदपि हि शौचार्यं1 जानता पुंसा॥ 58 ॥
दुर्लीलपल्लीपतिपुत्रहस्ते कस्तूरि कस्ते वद दुर्विपाकः।
आरभ्य सौरभ्यकथासु मौनं मालिन्यमात्रे वचसोऽवकाशः॥ 59 ॥
अयि बत गुरुगर्वं मा स्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण।
गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि॥ 60 ॥
जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो दूरे पुंसां वपुषि रचना पङ्कशङ्कां करोति।
यद्यप्येवं सकलसुरभिद्रव्यगर्वापहारी को जानीते परिमलगुणः कोऽपि कस्तूरिकायाः॥ 61 ॥
-
हस्तपादादिक्षालनार्थम्. ↩︎