३८ पान्थः

न यत्र गुणवत्पात्रमेकमप्यस्ति सन्निधौ।
कस्तत्र भवतः पान्थ कूपाम्बुग्रहणाग्रहः॥ 55 ॥
वापी कापि कदापि न श्रुतचरी को वेद कीदृक्सरो व्योमाम्भोजवनीव चात्र तटिनी कैर्नाम विज्ञायते।
हंहो पान्थ दुरन्तसाहसभरैरत्रागतं चेन्मरौ मण्डूकाकुलपङ्कसङ्कुलजलादन्धोः1 कबन्धं2 पिब॥ 56 ॥


  1. कूपात्. ↩︎

  2. जलम्. ↩︎