मौलिः स्वर्णकिरीटकान्तिरुचिरः केयूरभव्यौ भुजौ त्वद्भृत्याः किल कञ्चुकिप्रभृतयो देवेति विज्ञाप्यसे। इत्थं कल्पनया कुशीलव नृपाहंकारदार्ढ्यं वृथा नृत्यान्ते भवतो भविष्यति मसीमात्रावशेषं वपुः॥ 52 ॥