३२ कविः

कस्त्वं भोः कविरस्मि तत्किमु सखे क्षीणोऽस्यनाहारतो धिग्देशं गुणिनोऽपि दुर्मतिरियं देशं न मामेव धिक्।
पाकार्थी क्षुधितो यदैव विदधे पाकाय बुद्धिं तदा विन्घ्ये नेन्धनमम्बुधौ न सलिलं नान्नं धरित्रीतले॥ 49 ॥