विप्रेभ्यः साधुदानं रिपुजनसुहृदां चोपकारान्कुरु त्वं सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्यं यथार्थम्। श्रोत्रे ते तथ्यमेतत्कथयति सततं लेखनी भाग्यशालिन्नो चेन्नष्टेऽधिकारे मम मुखसदृशं तावकास्यं भवेद्धि॥ 48 ॥