भेकेन1 क्वणता सरोषपरुषं यत्कृष्णसर्पानने दातुं कर्णचपेट2मुज्झितभिया हस्तः समुल्लासितः। यच्चाधोमुखमक्षिणी विदधता नागेन तूष्णीं स्थितं तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम्॥ 46 ॥ मण्डूकेन. ↩︎ निर्भयेन. ↩︎