२८ व्याधः

एको विश्वसतां 1हराम्यपघृणः प्राणानहं प्राणिनामित्येवं परिचिन्त्य मा स्वमनसि व्याधानुतापं कृथाः।
भूपानां भवनेषु किंच विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः॥ 44 ॥

सर्वोद्वेगकरं मृगादनममुं सन्त्यज्य हा धिक्त्वया लोकस्यानपकारिणं गिरिनदीतिराटवीनिर्वृतम्।
अश्नन्तं तृणमेणशावमदयं व्याधघ्नतामुं वृथा देवो दुर्बलघातकोऽयमिति सा गाथा यथार्थीकृता॥ 45 ॥


  1. निष्करुणः. ↩︎