भ्रातर्ग्राम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते। किं त्वेकं रुचिरं चिरादभिनवं वासस्तदासूत्र्यतां यन्नोज्झन्ति कुचस्थलात्क्षणमपि क्षोणीभुजां वल्लभाः॥ 38 ॥