गुणानामज्ञानादनुभवतु तावत्प्रतिपदं मुहुर्बाहुच्छेदव्यतिकरमसौ स्वर्णवलयः। अपि ज्ञाते तत्त्वे तव गुणसमुद्रस्य पुरतः समं गुञ्जापुञ्जैस्तुलनमतिलज्जाकरमिदम्॥ 33 ॥