१८ नासाभूषणम्

हारस्यातिदुरापमस्ति भुवने हे नासिकाभूषण त्वत्सौभाग्यमिति प्रतीहि वनितावक्त्रेन्दुकान्तिप्रद।
यत्कान्तातनुसङ्गमाय सहते सोऽन्तर्विभेदव्यथां सा नासा पुटभेटनादपि भवत्सङ्गं यतो वाञ्छति॥ 32 ॥