१७ कण्डलम्

यत्पूर्वं पवनाग्निशस्त्रसलिलैश्चीर्णं तपो दुष्करं तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं1 वपुः।
मुग्धापाण्डुकपोलचुम्बनसुखं सङ्गश्च रत्नोत्तमैः प्राप्तं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे॥ 31 ॥


  1. सौवर्णं च. ↩︎