मुक्ताहार गुणीभूय नोपसर्प्यः स्तनस्त्वया।
विभवे यस्य काठिन्यं व्यर्थं तदुपसर्पणम्॥ 24 ॥
1गुणवतस्तव हार न युज्यते परकलत्रकुचेषु विलुण्ठनम्।
2स्पृशति शीतकरो जघनस्थलीमुचितमस्ति तदेव कलङ्किनः।3॥ 25 ॥
सद्वृत्तसद्गुणविचित्रमहार्हकान्ते कान्ताघनस्तनतटाञ्चितचारुमूर्ते।
आः पामरीकठिनकण्ठविलग्नभङ्ग हा हार हारितमहो भवता गुणित्वम्॥ 26 ॥
दीर्णोऽपि चेत्कनकसूत्रनिवेशनाय मुक्ताकलाप किमतो भवतो विषादः।
यत्पञ्चबाणजयमङ्गलहेमकुम्भकुम्भस्तनीस्तनतटे भवितानुषङ्गः॥ 27 ॥
अन्येऽपि सन्ति कति नो गुणिनो जगत्यां हार त्वमेव गुणिनामुपरि स्थितोऽसि।
एणीदृशामुरसि नित्यमवस्थितस्य सद्वृत्तता च शुचिता च न खण्डिता यत्॥ 28 ॥
येनाकारि महीभृतामविरलं कण्ठेषु लीलायितं येन प्रापि सरोजसुन्दरदृशां तुङ्गस्तनालिङ्गनम्।
जातं येन गजेन्द्रगण्डपुलिने साधारणं गुञ्जया मुक्तादाम तदेव पामरपुरे नावाप कां कां दशाम्॥ 29 ॥