१३ मौक्तिकम्

अत्यच्छेनाविरुद्धेन सुवृत्तेनातिचारुणा।
अन्तर्भिन्नेन सम्प्राप्तं मौक्तिकेन निबन्धनम्॥ 20 ॥
हृदये कुरु सञ्चयं गुणानां यदि रे वाञ्छसि नासिके निवासम्।
इति मौक्तिक ते वदामि नूनं गुणहीनो नहि नासिके विभाति॥ 21 ॥
रत्नाकरे परिहृता वसतिः किमन्यदङ्गीकृतः कठिनवेधनदुःखभारः।
वक्षोजकुम्भपरिरम्भणलोलुपेन किं किं न तेन विहितं बत मौक्तिकेन॥ 22 ॥