१२ सुवर्णम्

अग्निदाहे न मे दुःखं छेदे न निकषे न वा।
यत्तदेव महद्दुःखं गुञ्जया सह तोलनम्॥ 18 ॥
न वै ताडनात्तापनाद्वह्निमध्ये न वै विक्रयात्क्लिश्यमानोऽहमस्मि।
सुवर्णस्य मे मुख्यदुःखं तदेकं यतो मां जना गुञ्जया तोलयन्ति॥ 19 ॥