०९ जलम्

शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे।
किं वातः परमुच्यते स्तुतिपदं यज्जीवनं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः॥ 14 ॥
अब्जं त्वज्जमथाब्जभूस्तत इदं ब्रह्माण्डमण्डात्पुनर्विश्वं स्थावरजङ्गमं तदितरत्त्वन्मूलमित्थं पयः।
धिक्त्वां चोर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्बध्यन्ते विवशास्त्वदेकशरणास्त्वामाक्षिता जन्तवः॥ 15 ॥