०७ आकाशम्

यः पीयूषसहोदरैः स्नपयति ज्योत्स्नाजलैः सर्वतो यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः।
भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव॥ 12 ॥