सङ्ग्रामाङ्गणमागते दशमुखे सौमित्रिणा विस्मितं सुग्रीवेण विवर्तितं हनुमता व्यालोलमालोकितम्। श्रीरामेण परंतु पीनपुलकस्फूर्जत्कपोलश्रिया सान्द्रानन्दरसालसा निदधिरे बाणासने दृष्टयः॥ 8 ॥