+१५ वृक्षान्योक्तयः

अहो एषां वरं जन्म सर्वप्राण्युपजीवनम्।
धन्या महीरुहा येभ्यो निराशा यान्ति नार्थिनः॥ 1 ॥
पत्त्रपुष्पफलच्छायामूलवल्कलदारुभिः।
गन्धनिर्यासभस्मास्थितोक्मैः कामान्वितन्वते॥ 2 ॥
1प्रत्यग्रैः पत्त्रनिचयैस्तरुर्यैरेव शोभितः।
जहाति जीर्णास्तानेव किंवा चित्रं 2कुजन्मनः॥ 3 ॥

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥ 4 ॥
परोपसर्पणानन्तचिन्तानलशिखाशतैः।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः॥ 5 ॥
मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी।
3फलसन्दोह गुरुणा तरुणा किं प्रयोजनम्॥ 6 ॥

शाखाशतचितवियतः सन्ति कियन्तो न कानने तरवः।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः॥ 7 ॥
तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः1 पन्थाः।
मार्गस्थिततरुरेकः कियतां सन्तापमपहरति॥ 8 ॥

हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविभवः।
हन्त सहन्ते यावत्तावद्द्रुम कुरु परोपकृतिम्॥ 9 ॥
अध्वन्यध्वनि तरवः पथि पथि पथिकैरुपास्यते छाया।
विरलः स कोऽपि विटपी यमध्वगो गृहगतः स्मरति॥ 10 ॥
कश्चिन्नवं पल्लवमादधाति कश्चित्प्रसूनानि फलानि कश्चित्।
परं करालेऽस्य निदाघकाले मूले न दाता सलिलस्य कश्चित्॥ 11 ॥
व्यागुञ्जन्मधुकरपुञ्जुगीतान्याकर्ण्य श्रुतिमदजाल्लयातिरेकात्।
आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि॥ 12 ॥
भुक्तानि यैस्तव फलानि 2पचेलिमानि क्रोडस्थितैरहह वीतभयैः प्रसुप्तम्।
ते पक्षिणो जलरयेण विकृष्यमाणं पश्यन्ति पादप भवन्तममी तटस्थाः॥ 13 ॥

धत्ते भरं कुसुमपत्त्रफलावलीनां घर्मव्यथां वहति शीतभवां रुजं च।
यो देहमर्पयति चान्यमुखस्य हेतोस्तस्मै 4वदान्यगुरवे तरवे नमस्ते॥ 14 ॥

इहोद्याने सम्प्रत्यहह परिशिष्टाः क्रमवशादमी वल्मीकास्ते भुजगकुललीलावसतयः।
गतास्ते विस्तीर्णस्तबकभरसौरभ्यलहरीपरी5तव्योमानः 6प्रकृतिगुरवः केऽपि तरवः॥ 15 ॥

विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः।
दशां दीनां नीते सरसि विषमग्रीष्मदिवसैः कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि॥ 16 ॥
इयं बाला वल्ली मृदुकिसलयं तापविलयं घनच्छायं शालं नवमतिविशालं परिगताः।
परं त्वस्याभ्यन्तर्गरललवभस्मीकृतवनं भुजङ्गं प्रोत्तुङ्गं कथमिव वराकी कलयतु॥ 17 ॥
किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया छन्नश्चेत्फलितोऽसि किं फलभरैराढ्योऽसि किं सन्नतः।
हे सद्वृक्षसहस्व सम्प्रति सखे शाखाशिखाकर्षणक्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः॥ 18 ॥
छायासुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः।
विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एतस्तरुर्यत्राङ्गीकृतसत्त्वसम्प्लवभरे भग्नापदोऽन्ये द्रुमाः॥ 19 ॥
भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः।
विश्रान्ताः सुचिरं परं सुमनसः प्रीतिः किमत्रोच्यते त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम्॥ 20 ॥
पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति।
पर्यालोच्य महातरो तव घनच्छायां वयं सम्श्रितास्तत्त्वत्कोटरवासिनो 3द्विरसना दूरीकरिष्यन्ति नः॥ 21 ॥

मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं 1मांसला वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव।
एकः किन्तु मनागयं जनयति स्वान्ते ममाधिज्वरं ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः॥ 22 ॥

ये पूर्वं परिपालिताः फलभरच्छायादिभिः प्राणिनो विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम्।
एताः सङ्गतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि॥ 23 ॥
वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता जातोऽसौ सरसप्रकामफलदः सर्वाश्रितोपाश्रयः।
नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस्तं लब्धावसरोऽपि वृद्धशकुनिर्दूरे स्थितो वीक्षते॥ 24 ॥
छायाभिः प्रथमं ततस्तु कुसुमैः पश्चात्फलैः स्वादुभिः प्रीणात्येव तरुः पथीति पथिकैः श्रान्तैः सुखं स्थीयते।
को जानाति यदत्र कोटरगतः प्रत्यग्रहालाहलज्वालाजालकरालवक्त्रकुहरः कृष्णः फणी वर्तते॥ 25 ॥
आमोदैर्मरुतो मृगः किसलयोल्लासैस्त्वचा तापसाः पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया।
स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्ततस्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः॥ 26 ॥
रोलम्बैर्निमितं गृहं विघटितं धूमाकुलैः कोकिलैर्मायूरैश्चलितं पुरैव रभसा कीरैरधीरैर्गतम्।
एकेनापि सपल्लवेन तरुणा दावानलोपप्लवः सोढः को न विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः॥ 27 ॥
एकस्त्वं मरुभूरुहेन्द्र विततैः शाखाशतैरञ्चितः पुष्प्यत्पुष्पफलान्वितैरमृदितैर्जीव्याः सहस्रं समाः।
अश्रान्तं श्रमरुग्णपान्थजनतासर्वार्थनिर्वाहणं कस्त्वां सात्त्विकमन्तरेण भुवनं निर्मातु धर्माशयः॥ 28 ॥
धत्से मूर्धनि दुःसहा दिनमणेरुद्दामधामच्छटाश्छायाभिः पथिकान्निदाघमथितान्पुष्णासि पुष्पैः फलैः।
धैर्यं मुञ्चसि नैव येन भवता शाखा सुविस्तारिता तेनाशासु वनस्पते तव यशस्तोमः समुज्जृम्भते॥ 29 ॥
तीव्रोऽयं नितरां निदाघसमयः प्रोद्यत्प्रचण्डद्युतिर्मार्गो मारव एष तत्र पथिकाः सञ्चारिणः कोटिशः।
तेषां कश्चिदिहाश्रयस्तरुवरो दैवेन सम्पादितः सोऽप्येकः सुकृती करोतु कियतां सन्तापनिर्वापणम्॥ 30 ॥


  1. नूतनैः. ↩︎ ↩︎ ↩︎

  2. कुः पृथ्वी तस्या जन्म यस्य; [पक्षे] कुत्सितं जन्म यस्य. ↩︎ ↩︎

  3. समूहः. ↩︎ ↩︎

  4. दानशौण्डानां गुरवे. ↩︎

  5. व्याप्तम्. ↩︎

  6. स्वभावतो महान्तः. ↩︎