५० कमलानि

॥ वरमश्रीकता लोके नासमानसमानता।
इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम्॥ 205 ॥
प्रसारितकरे मित्त्रे जगदुद्द्योतकारिणि।
किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम्1॥ 206 ॥

लक्ष्मीसम्पर्कजातोऽयं दोषः पद्मस्य निश्चितम्।
यदेष गुणसन्दोहधाम्नि चन्द्रे पराङ्मुखः॥ 207 ॥
अन्तश्छिद्राणि2 भूयांसि 3कण्टका बहवो बहिः।
कथं कमलनालस्य नाभूवन्भङ्गुरा गुणाः।4॥ 208 ॥

मालतीमुकुला याताः कुन्दा मन्दायितास्तथा।
पङ्कज त्वामिदॄं ब्रूमः कुत्र यातु मधुव्रतः॥ 209 ॥
पङ्कज 5जलेषु वासः प्रीति6र्मधुपेषु 7कण्टकैः सङ्गः।
यद्यपि तदपि तवैतच्चित्रं 8मित्त्रोदये हर्षः॥ 210 ॥

(5. उदकेषु; (पक्षे जलयोः सावर्ण्यात्) जडेषु मूर्खेषु.)

कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः।
अलिकुलनिचयै रुचिरं किं तु यशः कुमुदकमलयोरेव॥ 211 ॥
उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति।
सङ्कुचसि कमल यदयं हर हर वामो विधिर्भवतः॥ 212 ॥
एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति।
यल्लक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः॥ 213 ॥
पद्मिनि किमिति क्रीडसि मधुपैर्लज्जालवोऽपि न हि किं ते।
हर हर विस्मृत्योक्तं क्व नु लज्जा 9सवितृरक्तायाः॥ 214 ॥

किं कुप्यसि कस्मैचन सौरभसाराय कुप्य निजमधुने।
यस्य कृते शतपत्त्र प्रतिपत्त्रं तेऽद्य मृग्यते भ्रमरैः॥ 215 ॥
अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्वम्।
10पुष्पवतीमपि भवतीं त्यजति न वृद्धः 11शुचिर्हंसः12॥ 216 ॥

मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनि मंस्थाः।
लोकानामेव मुदे महितोऽप्यात्मामुनार्थितां नीतः॥ 217 ॥
न कुले वापि न शीले न वास्ति रूपेऽपि कश्चिदुत्कर्षः।
यत्पुष्णाति मिलिन्दानरविन्द महत्त्वमेतत्ते॥ 218 ॥
रे पद्मिनीपत्त्र भवच्चरित्रं चित्रं प्रतीमो वयमत्र किञ्चित्।
त्वं पङ्कजन्मापि यदच्छभावादपि स्पृशस्यम्बु न पङ्कसङ्गि॥ 219 ॥
जनिः सरोङ्कादतिपङ्किनो यद्यल्लोलुपैर्वा मधुपैर्विहारः।
कलङ्क एवैष कुमुद्वतीनां 1कलङ्किनः किं तु कलावतीनाम्॥ 220 ॥

अपि त्वया कैरविणि व्यधायि मुधा सुधाबन्धुनि बन्धुभावः।
जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः॥ 221 ॥
कमलिनि 2मलिनीकरोषि चेतः किमिति बकैर3वहेलितान4भिज्ञैः।
परिणतमकरन्दमार्मिकास्ते5 जगति भवन्तु चिरायुषो मिलिन्दाः6॥ 222 ॥

रुचिरतिरुचिरा शुचित्वमुच्चैः शिरसि धृतः स्वयमेव शंकरेण।
कमलिनि मलिनीकरोषि कस्मान्मुखमिदमिन्दुमुदीक्ष्य लोककान्तम्॥ 223 ॥
नलिनि निपुणतां वदामि किं ते भ्रमरविलासिनि लास्यलालसायाः।
त्रिभुवननयनोत्सवं यदिन्दुं नयसि न हन्त दृगन्तवर्त्मसीमाम्॥ 224 ॥
स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः।
आमोदानथ 7हरिदन्तराणि नेतुं नैवान्यो जगति 8समीरणात्प्रवीणः॥ 225 ॥

यावत्त्वां न खलु हसन्ति कैरविण्यो यावत्त्वां तरणिकराः परामृशन्ति।
यावत्ते मधुविभवो नवोऽस्ति तावन्माध्वीकं वितर सरोज षट्पदेभ्यः॥ 226 ॥
रे पद्मिनीदल तवात्र मया चरित्रं दृष्टं विचित्रमिव यद्विदितं ध्रुवं तत्।
यैरेव शुद्धसलिलैः परिपालितस्त्वं तेभ्यः पृथग्भवसि 9पङ्कभवोऽसि यस्मात्॥ 227 ॥

कामं भवन्तु मधुलम्पटषट्पदौघसङ्घट्टघर्घरघनध्वनयोऽब्जखण्डाः।
गायन्नपि श्रुतिसुखं विधिरेष यत्र भृङ्गः स कोऽपि धरणीधरनाभिपद्मः॥ 228 ॥
विभ्रम्य काननमसौ दिवसावसाने त्वय्येव षट्पदयुवा हृदयं बबन्ध।
राजीव चेन्मलिनिमानमुरीकरोषि कः स्यादहो मधुलिहामधुनावलम्बः॥ 229 ॥
स्वामोदवासितसमग्रदिगन्तराला रक्ता मनोहरशिखा सुकुमारमूर्तिः।
सेव्या सरोजकलिका तु यदैव जाता नीतस्तदैव विधिना मधुपोऽन्यदेशम्॥ 230 ॥
किं बान्धवेन रविणा हरिणाथ किंवा लक्ष्म्या च किं च 10जलजोदरजेन किं वा।
एतस्य शुद्धचरितस्य सरोरुहस्य नैषा तुषारजनिता शमिता विपत्तिः॥ 231 ॥

लक्ष्मीनिवास इति वारिरुहां प्रसिद्धिरन्वेषिताः कतिपया 11वरटास्तु सन्ति।
राज्ञि प्रसारितकरे किमहं ददामि सङ्कोचितं वदनमम्बुरुहैरितीव॥ 232 ॥

लक्ष्मीः स्वयं निवसति त्वयि लोकधात्रि मित्त्रेण चापि विहितोऽस्ति दृढोऽनुरागः।
बन्दीव गायति गुणांस्तव चञ्चरीकः कः पुण्डरीक तव साम्यमुरीकरोति॥ 233 ॥
अयि दलदरविन्द स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः।
दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्परिमलमयमन्यो बान्धवो गन्धवाहः॥ 234 ॥
समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं निवासः 1पद्मायाः सुरहृदयहारी परिमलः।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव द्विजोत्तंसे2 हंसे यदि रतिरतीवोन्नतिरियम्॥ 235 ॥

नालस्य प्रसरो जलेष्वपि कृतावासस्य कोशे रुचिर्दण्डे कर्कशता मुखेऽतिमृदुता मित्त्रे महान्प्रश्रयः।
आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे3 यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः॥ 236 ॥

नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी वासो यस्य हरेः करे परिमलो 4गीर्वाणचेतोहरः।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह त्वं चेत्प्रीतिमु5रीकरोषि मधुपे किं त्वां प्रति ब्रूमहे॥ 237 ॥

एकस्मिञ्जनिरावयोः समजनि स्वच्छे सरोवारिणि भ्रातः काचिदिहैव कानिचिदहान्यत्र व्यतीतानि नौ।
लब्धं तामरसं त्वया मृगदृशां लीलावतंसास्पदं शैवालं विलुठामि पामरवधूपादाहते पाथसि॥ 238 ॥
वैमुख्यं मृगलाञ्छनस्य मनसो निर्माति मे न व्यथां नो दूये चिरलालिता मधुलिहः सर्पन्ति यन्नान्तिकम्।
जल्पन्तीव दुरक्षराणि मधुपक्षेणीरवच्छद्मना यत्कादम्ब कुमुद्वती हसति मां तन्मे मनस्ताम्यति॥ 239 ॥
सम्भूतिस्तव मानसे सरसिज त्वत्सौरभैर्वासिताः सर्वास्ताः ककुभस्तवास्ति परमो बन्धुर्विवस्वानिति।
त्वं चेदद्य गुणानवद्य शिशिरे शीतानिलैः शीर्यसि प्रायः प्राप्तमिदं तदत्र परमं दिष्टेऽब्ददृष्टं बलम्॥ 240 ॥
खद्योतास्तरला भवन्ति भगवानस्तंगतो भानुमान्कोकः शोकमुपैति मत्तमनसः क्रेङ्कुर्वते कौशिकाः।
इत्थं चेत्सदसद्विवेकविधुरो धाता तदेतादृशं न द्रष्टव्यमितीव मुद्रितवती पद्मेक्षणं पद्मिनी॥ 241 ॥
पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां येन घ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः।
तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे॥ 242 ॥


  1. कोशसम्वरणम्. ↩︎ ↩︎ ↩︎

  2. रन्ध्राणि; [पक्षे] दोशस्थानानि. ↩︎ ↩︎ ↩︎

  3. शूका; [पक्षे] खलाः. ↩︎ ↩︎ ↩︎

  4. सौभाग्यादयः; [पक्षे] तन्तयः. ↩︎ ↩︎ ↩︎

  5. मर्मज्ञाः. ↩︎ ↩︎ ↩︎

  6. भ्रमरेषु; [पक्षे] मद्यपेषु. ↩︎ ↩︎

  7. स्वाङ्गरुहैः; [पक्षे] दुष्टैः. ↩︎ ↩︎

  8. सूर्यः; [पक्षे] स्निग्धः. ↩︎ ↩︎

  9. सूर्यानुरक्तायाः; [पक्षे] सविता पिता तस्मिन्रक्तायाः पितृगामिन्या इत्यभिप्रायः. ↩︎ ↩︎

  10. पुष्पयुक्ताम्; [पक्षे] रजस्वलाम्. ↩︎ ↩︎

  11. श्वेतः; [पक्षे] पवित्रः. ↩︎ ↩︎

  12. राजहंसः; [पक्षे] परमहंसः. ↩︎