४९ कुन्दः

एष षट्पदयुवा मदायतः कुन्द यापयति यामिनीस्त्वयि।
दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि॥ 203 ॥
सन्दर्शयस्व मधुवैभवमस्ति यत्ते रे कुन्द किं दुरभिमानमुरीकरोषि।
एतन्न चेतसि करोषि सरोजबन्धुः पुष्पंधयोऽपि मम सौरभमातनोति॥ 204 ॥